________________
२९९
नवमम् अध्ययनम्
( ति . ) एवं दृष्टान्तमुक्त्वा दान्तिकयोजनामाह - द्रुममूलवद् धर्मकल्पद्रुमस्य विनयो मूलम् । से-तस्य विनयमूलस्य । फलरसकल्पः परमो मोक्षः । स्कन्धादिकल्पानि देवलोकगमन-सुकुलागमनानि ज्ञेयानि । येनेति तृतीया पञ्चम्यर्थे । यतो विनयात् पत्रकल्पां कीर्तिम्-सर्वत्र साधुवादरूपाम् । पुष्पकल्पं श्रुतं श्लाघ्यंम् अङ्गप्रविष्टादि । निःशेषम्-सम्पूर्णगुरुदत्तंमिहापि फलरसकल्पं तु मोक्षं, कोऽप्यत्र भवे, कोऽप्यमुत्र वा । अधिगच्छति प्राप्नोति ।।९.२.२ ।।
(स.) एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह-एवं- इति- एवं धर्मस्य परमकल्पवृक्षस्य विनयो मूलमादिप्रबन्धरूपं, परम इत्यग्रो रसः, से तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमन - सुकुलागमादीनि, अतो विनयः कर्तव्यः, येन विनयेन कृत्वा साधुः कीर्तिं सर्वत्र शुभप्रवादरूपामधिगच्छति प्राप्नोति, पुनः श्रुतमङ्गप्रविष्टादि, श्लाघ्यं प्रशंसास्पदीभूतं निश्शेषं सम्पूर्णं च प्राप्नोति ।।९.२.२।।
(सु.) एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह - एवं... इति, एवं - द्रुममूलवत्, धर्मस्य-परमकल्पवृक्षस्य, विनयो मूलं - आदिप्रबन्धरूपं, परम इत्युग्रो रसः, से-तस्य, फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमन- सुकुलागमनादीनि, अतो विनयः कर्त्तव्यः, किं विशिष्ट ? - इत्याह-येन - विनयेन कीर्ति सर्वत्र शुभप्रवादरूपां तथा श्रुतंअङ्गप्रविष्टादि श्लाघ्यं - प्रशंसास्पदीभूतं निःशेषं संपूर्णं चाधिगच्छति-प्राप्नोतीति ।।९.२.२।।
जे य चंडे मिए थद्धे, दुव्वाई नियडी सढे ।
वुज्झई से अविणिअप्पा, कट्टं सोयगयं जहा ।। ९.२.३।।
(ति) अविनयवतो दोषमाह - यश्च चण्डः - रोषणः । मृगः - अज्ञः । स्तब्धःजात्यादिमदोन्मत्तः । दुर्वादी- विरूपभाषी । निकृतिमान्-मायावी । शठः-कूटकृत् । एभ्यो दोषेभ्यो विनयं न करोति यः । उद्यते संसारश्रोतसा सोऽविनीतात्मा । काष्ठं श्रोतोगतं नद्यादि प्रवाहयति तं यथा । । ९.२.३ ।।
(स.) अथाविनयदोषमाह - जे इति - साधुरेतेभ्यो विनयं न करोति, स संसारस्रोतसा उह्यते, किंवत् ? काष्ठमिव किम्भूतं काष्ठं ? स्रोतोगतं, नद्यादिवहनीपतितं किम्भूतः साधुः ? चण्डों रोषणः, पुनः किम्भूतः साधुः ? मृगोऽज्ञो हितमप्युक्तो रुष्यति, पुनः