________________
(II विनयसमाध्यध्ययने द्वितीयोद्देशकः ।।)
मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साला | साहप्पसाहा विरुहंति पत्ता, तओ से पुष्पं च फलं. रसो य ।।९.२.१।।
(ति.) तस्येदमादिसूत्रम्-मूलात् स्कन्धप्रभवः थुण्डोत्पत्तिः । द्रुमस्य स्कन्धात् पश्चात् समुपयन्ति-समुत्पद्यन्ते । शाला:-शाखाः । शाखाभ्योऽपि प्रशाखाः-शाखोत्थाः, तेभ्योऽपि पत्राणि विरोहन्ति । ततः से-तस्य द्रुमस्य । पुष्पं च फलं च । रसश्चफलगतः । एवमेतेन क्रमेण भवन्ति ।।९.२.१ ।।
(स.) मूलाओ इति-अथ नवमाध्ययने विनयाधिकार एव द्वितीयोद्देशकः प्रारभ्यते, पूर्वं प्रथमोद्देशके विनयसमाधिरुक्तः, द्वितीयोऽपि विनयाधिकारवानुच्यते, तत्र सूत्रं[मूलाओ]-द्रुमस्य वृक्षस्य मूलादादिप्रबन्धात् स्कन्धप्रभवः, स्थुडोत्पादः ततः स्कन्धात् पश्चाच्छाखाः, तस्य भुजाकल्पाः समुपयान्त्यात्मानं प्राप्नुवन्ति, उत्पद्यन्त इत्यर्थः, तथा शाखाभ्य उक्तस्वरूपाभ्यः प्रशाखाः, तासामंशभूता विरोहन्ति जायन्ते, तथा ताभ्योऽपि प्रशाखाभ्यः पत्राणि पर्णानि विरोहन्ति, ततस्तदन्तरं से तस्य द्रुमस्य पुष्पं च फलं च रसश्च. ।।९.२.१।।
(सु.) विनयाधिकारवानेव द्वितीय[उद्देशक] उच्यते, तत्रेदमादिसूत्रम् मूलाउ इति, मूलादादिप्रबन्धात् स्कन्धप्रभवः-स्थुडोत्पादः, कस्य ? इत्याह-द्रुमस्य-वृक्षस्य, ततःस्कन्धात् सकाशात्, पश्चात्-तदनु, समुपयान्ति-आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता ?-इत्याह-शाखास्तद्भुजाकल्पाः, तथा शाखाभ्यः-उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति-जायन्ते, तथा ताभ्योऽपि पत्राणि-पर्णानि विरोहन्ति । ततस्तदनन्तरं, से-तस्य द्रुमस्य पुष्पं फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति ।।९.२.१।।
एवं धम्मस्स विणओ, मूलं परमो से मुक्खो | जेण कित्तिं सुयं सिग्धं, निस्सेसं चाभिगच्छई ।।९.२.२।।
१.साहा 'इत्यन्त्र मुद्रितः पाठः |२.विनयसमाध्यध्ययनस्य द्वितीयोद्देशकस्य- इत्यर्थः । ३.थड इति भाषायाम् |