________________
नवमम् अध्ययनम्
२९७ महैषिणो-मोक्षैषिणः, कथं महैषिण, इत्याह-समाधियोग-श्रुत-शील-बुद्धिभिः समाधियोगै:ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन, शीलेन-परद्रोहविरतिरूपेण, बुद्ध्या च
औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोग-श्रुत-शील-बुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयेद् विनयकरणेन, न सकृदेव, अपि तु तोषयेत्-असकृत्करणेन तोषं ग्राहयेत्, धर्मकामो-निर्जरार्थी, न तु ज्ञानादिफलापेक्षयेति ।।९.१.१६ ।।
सुच्चाण महावि सुहासियाई, सुस्सुसए आयरियंपमत्तो । आराहइत्ताण गुणे अणेगे, सो पावई सिद्धिमणुत्तरं ।।९.१.१७।। ति बेमि (ति.) निगमयन्नाह-श्रुत्वा मेधावी । सुभाषितानि-गुर्वाराधनफलाभिधायीनि । शुश्रूषते । आचार्यम् अप्रमत्तः-तदाज्ञां कुरुते । एवं गुरुशुश्रूषापरः । सः-साधुः । आराध्यगुणान् अनेकान् ज्ञानादीन् । प्राप्नोति सिद्धिमनुत्तराम्-अनन्तरामेव । सुकुलादिजन्मपरम्परया वा । इति ब्रवीमि-इति पूर्ववत् ।।९.१.१७।। इति तिलकाचार्यवृत्ती विनयसमाधौ प्रथमोद्देशकः ।।
(स.) पुनराह सुच्चा इति-मेधावी पण्डितः साधुः सदाचार्यान् शुश्रूषयेत्. किं कृत्वा ? सुभाषितानि गुराधनफलाभिधायकानि श्रुत्वा, किंविशिष्टो मेधावी ? अप्रमत्तो निद्रादिप्रमादरहितः, य एवं गुरुशुश्रूषापरः, स गुणाननेकान् ज्ञानादिरूपानाराध्य सिद्धिमनुत्तरां मुक्तिमनन्तरं सुकुलादिपरम्परया वा प्राप्नोति. ब्रवीमीति पूर्ववत्. ।।९.१.१७ ।।
|| इति श्रीदशवैकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां नवमाध्ययने प्रथमोद्देशकः समाप्तः. १. श्रीरस्तु. ||
(सु.) सोच्चाणं इति, श्रुत्वा मेधावी सुभाषितानि-गुराधनफलाभिधायीनि, किम्?इत्याह-सुश्रूषयेत् सदा-ऽऽचार्यान्, अप्रमत्तो-निद्रादिविरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुसुश्रूषापरः स आराध्य गुणाननेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा ।।४१५।। ब्रवीमीति पूर्ववत् ।।
इति सुमति. वृत्तौ विनयसमाधावुक्तः प्रथम उद्देशकः ९-१ ।।
१.आयरिऽप्पमत्तो'इति पाठोन्यत्र मुद्रितः | २.विणयसमाहीए पढमो उददेसो समत्तो ।