________________
दशवैकालिकं-टीकात्रिकयुतम्
1
कौमुदीयोगयुक्तः, कार्त्तिकपौर्णमास्यामुदितः पुनः किम्भूतश्चन्द्रः ? नक्षत्र - तारागणपरिवृतात्मा, नक्षत्रैस्ताराणां गणैवृन्दैर्युक्त इति भावः किम्भूते खे ? अभ्रमुक्ते, पुनः किम्भूते खे ? विमले, निर्मले अभ्रमुक्तमाकाशमत्यन्तं निर्मलं भवतीति ख्यापनार्थम्, तदेवं चन्द्र इव गणी आचार्यः शोभते भिक्षुमध्ये. अतोऽयं गुरुर्महत्त्वात् पूज्य इति. ।।९.१.१५ ।।
२९६
(सु.) जहा 'इति, यथा शशी - चन्द्रः, कौमुदीयोगयुक्तः- कार्त्तिकपौर्णिमास्यामुदित इत्यर्थः, स एव विशेष्यते - नक्षत्र - तारा - गणपरिवृतात्मा - नक्षत्रादिभिर्युक्त इति भावः, खे-आकाशे शोभते, किंविशिष्टे खे ?, विमले अभ्रमुक्ते - अभ्रमुक्तमेवात्यन्तं विमलं भवतीति ख्यापनार्थमेतत् एवं चन्द्र इव गणी - आचार्यः, शोभते भिक्षुमध्ये - साधुमध्ये, अतोऽयं महत्त्वात् पूज्य इति ।। ९.१.१५ ।।
महागरा आयरिया महेसी, समाहिजोए सुयसीलबुद्धीए । संपाविउकामो अणुत्तराई, आराहए तोसइ धम्मकामी ।।९.१.१६ ।।
1
(ति.) अपि च-महाकराः- ज्ञानादिभावरत्नाकराः । आचार्याः । महैषिणः- मोक्षैषिणः । समाधियोग-श्रुत-शील-बुद्धिभिः-समाधियोगैर्ध्यानविशेषैः श्रुतेन - द्वादशाङ्गाभ्यासेन, शीलेन- सदाचारेण, बुद्ध्या - औत्पत्तिक्यादिरूपया । अणुत्तराणि - ज्ञानादीनि । सम्प्राप्तुकामः। धर्मकामी च - साधुः, तानाचार्यान् । आराधयेत् । असकृद् विनयकरणेन तोषयेत् ।।९.१.१६।।
I
(स.) महागरा... इति पुनः किञ्च धर्मकामो निर्जरार्थं, न तु ज्ञानफलापेक्षयापि, साधुस्तानाचार्यान् सम्प्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयेद् विनयकरणेन, नैकवारमेव, किन्तु तोषयेद् वारंवारं विनयकरणेन सन्तोषं ग्राहयेत्, तान् कानाचार्यान् ? ये महाकराः, ज्ञानादिभावरत्नानामाकराः पुनः किम्भूता आचार्याः ? महेषिणो मोक्षैषिणः, कथं महैषिणः इत्याह-समाधियोग- श्रुत- शील- बुद्धिभिः, समाधियोग-र्ध्यानविशेषैः श्रुतेन द्वादशाङ्गाभिधानेन, शीलेन परद्रोहविरतिरूपेण, बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्य आचार्या इत्थं व्याख्यानयन्ति - समाधि-योग- श्रुत-शील- बुद्धीनामाकरा इति . ।।९.१.१६ ।।
(सु.) किञ्च - महागरा आयरिआ ' इति, महाकरा ज्ञानादिभावरत्नापेक्षया, आचार्या