________________
२९५
नवमम् अध्ययनम् पूजयामि, न तेभ्योऽन्यः पूजार्ह' इति ।।९.१.१३ ।।
जहा निसंते तवनच्चिमाली, पभासई भारह केवलं तु | एवायरिओ सुयसीलबुद्धीए, विरायई सुरमज्झे व इन्द्रो ||९.१.१४।।
(ति.) इतश्चैते पूज्या इत्याह-यथा निशान्ते-दिने जाते । तपन् अर्चिमालीसूर्यः । प्रभासते । भरतं केवलम्-परिपूर्णम् । तुशब्दाद्-अन्यच्च क्रमेण । एवमाचार्यः श्रुतेन । शीलेन-सदाचारेण। बुद्ध्या-स्वाभाविक्या युक्त्या । प्रकाशयति जीवादितत्त्वानीत्यर्थः । एवं वर्तमानः सुसाधुभिः परिवृत्तो विराजते । सुराणाम्-वैमानिकानाम्। मध्ये इन्द्र इवेति ।।९.१.१४ ।। ___ (स.) अतः कारणात्, एते पूज्या इत्याह-जहा इति-अचिर्माली सूर्यो निशान्ते रात्रेरन्ते दिवस इत्यर्थः, केवलं संपूर्ण भारतं भरतक्षेत्रं, तुशब्दादन्यच्च, क्रमेण प्रभासयति उद्द्योतयति, किं कुर्वन् अर्चिाली? तपन्, एवमाचार्यो जीवादिभावान् प्रकाशयति, किम्भूत आचार्यः ? श्रुतशीलबुद्धिकः श्रुतेनागमेन शीलेन परद्रोहविरमणेन, बुद्ध्या च स्वाभाविक्या युक्तः सन्, एवं च वर्तमान आचार्यः साधुभिः परिवृतो विराजते, क इव ? सुरमध्ये सामानिकादिदेवमध्ये गत इन्द्र इव. ।।९.१.१४।। .
(सु.) इतश्चैते पूज्या इत्याह-जहा...इति, यथा निशान्ते-रात्र्यवसाने दिवस इत्यर्थः, तपन्नर्चिाली-सूर्यः प्रभासयति-उद्योतयति, केवलं-सम्पूर्णं, भारतं-भरतक्षेत्रं, तुशब्दादन्यच्च क्रमेण, एवमर्चिालीवाचार्यः श्रुतेन-आगमेन, शीलेन-परद्रोहविरतिरूपेण, बुद्ध्या च-स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृत्तो विराजते सुरमध्य इव-सामानिकादिमध्यगत इव इन्द्र इति ।।९.१.१४।।
जहा ससी कोमुइजोगजुत्ते, नक्खत्त-तारागण-परिवुडप्पा | खे सोहए विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ।।९.१.१५।। (ति.) किञ्च-यथा शशी कौमुदीयोगयुक्त:-कार्तिकपूर्णिमास्यामुदितः । नक्षत्रतारागण-परिवृतात्मा, खे शोभते, विमले अभ्रमुक्ते । एवम्-चन्द्र इव । गणीआचार्यः । शोभते भिक्षुमध्ये अतोऽयं महत्त्वात् पूज्यः ।।९.१.१५।।
(स.) पुनराह-जहा इति,-यथा चन्द्रः खे आकाशे शोभते, किम्भूतः ?