________________
नवमम अध्ययनम्
संपदो निषेधः । उदाहरणं चात्र दशारादयः कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहिताः, तदभङ्गकारी च तद्युक्तः कृष्ण इति ।।९.२.४।।
तव अविणीयप्पा, उववज्झा हया गया | दीसंति दुहमेहंता, आभिओगमुवट्टिया । । ९.२.५।।
३०१
(ति.) पुनरविनयदोषोपदर्शनार्थमेवाह - तथैवाविनीतात्मानः- आरोह (हं) चित्तेनाऽवहन्तः दुर्दान्ताः । औपवाह्या अपि - राजवाहनयोग्या अपि । हया गजा दृश्यन्ते । दुःखम् - यवसादि वह नक्लेशं विशिष्टखादनाद्यप्राप्तिरूपं च । एधमानाःअनेकार्थत्वादनुभवन्तः । आभियोग्यम् - पारवश्यम् । उपस्थिताः - प्राप्ताः ।।९.२.५।।
,
(स.) अविनयदोषस्योपदर्शनार्थमेवाह-तहेव 'इति- तथैव तेऽविनीतात्मानो विनयरहिता अनात्मज्ञा उपवाह्यानां राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्या हया अश्वा गजा हस्तिन उपलक्षणत्वान्महिषादयश्च, एते किं ? - इत्याह- दृश्यन्त उपलभ्यन्त एव मन्दुरादावविनयदोषेणोभय-लोकवर्तिना यवसादिवोढारः, दुःखं सङ्क्लेशलक्षण - मेधमाना अनेकार्थत्वादनुभवन्त आभियोग्यं कर्मकरभावमुपस्थिताः. ।।९.२.५।।
(सु.) अविनयदोषोपदर्शनार्थमेवाह - तहेव... इति, तथैवेति- तथैवैते अविनीतात्मानोविनयरहिता अनात्मज्ञाः, उपवाह्यानां - राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः, हयाः-अश्वाः, गजाः-हस्तिनः उपलक्षणमेतन्महिषकादीनामिति । एते किम् ? - इत्याहदृश्यन्ते-उपलभ्यन्ते, एव मन्दुरादौ अविनयदोषेणोभयलोकवर्त्तिना यवसादिवोढारः, दुःखं-संक्लेशलक्षणं एधमाना- अनेकार्थत्वादनुभवन्त आभियोग्यं कर्म्मकरभावं उपस्थिताःप्राप्ता इति ।। ९.२.५ ।।
तहेव सुविणीयप्पा, उववज्झा हया गया ।
दीसंति सुहमेहंता, इड्डि पत्ता महायसा ।।९.२.६ ॥
( ति.) एष्वेव विनयफलमाह - तथैव सुविनीतात्मानः- आरोहचित्तानुवर्त्तिनः । औपवाह्या-राजादिवाह्याः । हया गजा दृश्यन्ते । सुखमेधमानाः सुखं यथा भवति एवं वर्धमानाः । ऋद्धिं प्राप्ताः - विशिष्ट भूषणा -ऽऽलय - भोजनादिभावतः प्राप्तर्द्धयः । महायशसः-विख्याताः । राज- राजन्यादि - वाह्यत्वेन ।।९.२.६ ।।
(स.) एतेष्वेव विनयगुणमाह-तहेव 'इति-तथैवैते सुविनीतात्मानो विनयवन्त, आत्मज्ञा, औपवाह्या राजादीनां हया गजा इति पूर्ववत्, एते किम् ? - इत्याह-दृश्यन्त