SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९२ दशवैकालिकं-टीकात्रिकयुतम् सुदेवादिप्रभावातिशयाच्छिरसा मस्तकेन गिरिमपि पर्वतमपि भिन्द्यात्, स्यात् कदाचिन्मन्त्रादिसामर्थ्यात् सिंहः कुपितो न भक्षयेत्, स्यात् कदाचिद् देवतानुग्रहादिना शक्त्यग्रं प्रहारे दत्तेऽपि न भिन्द्यात्, एवमेतत् कदाचिद् भवति, परं न चापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति. ।।९.१.९।। : (सु.) अत्र विशेषमाह-सिया हु...इति, स्यात्-कदाचित् कश्चिद् वासुदेवादिप्रभावातिशयात-शिरसा उत्तमाङ्गेन गिरिमपि-पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात् सिंहः कुपितो न भक्षयेत, स्याद देवतानुग्रहादेर्न भिन्द्याद् वा शक्त्यग्रे प्रहारे दत्तेऽपि, एवमेतत् कदाचिद् भवति, न चापि मोक्षो गुरुहीलनया-गुरोराशातनया भवतीति ।।९.१.९।। आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्यि मुक्खो | तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ।।९.१.१०।। (ति.) विशेषतरमाह-आयरिय...इति] पूर्वार्द्ध पूर्ववत् । उत्तरार्द्ध सुगमम् ||९.१.१०।। (स.) एवं पावकाशातना अल्पा, गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाहआयरिय....इति-आचार्यपादाः पुनरप्रसन्ना इत्यादिपदद्वयव्याख्या पूर्ववत्, यस्मादेवं तस्मादनाबाध-सुखाभिकाङ्क्षी मोक्षसुखाभिलाषी, साधुर्गुरुप्रसादाभिमुख आचार्यादीनां प्रसाद उद्युक्तः सन् रमेत. ।।९.१.१०।। (सु.) एवं पावकाशातना अल्पा, गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाहआयरिय....इति-आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्द्ध पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखाभिकाङ्क्षी मोक्षसुखाभिलाषी साधुर्गुरुप्रसादाभिमुखः-आचार्यादिप्रसादे उद्युक्तः सन् रमेत-वर्तेतेति ।।९.१.१०।। जहाऽऽहिअग्गी जलणं नमसे, नाणाहुई-मंतपयाभिसित्तं । एवायरियं उवचिट्ठइज्जा, अणंतनाणोवगओ वि संतो ।।९.१.११।। • (ति.) केन प्रकारेणेत्याह-यथा आहिताग्निः-ब्राह्मणः । ज्वलनं नमस्यति । नानाहुति-मन्त्रपदाभिषिक्तम्-आहुतयो घृतप्रक्षेपाद्याः, मन्त्रपदानि चाग्नये स्वाहा...
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy