________________
२९३
नवमम् अध्ययनम् इत्यादीनि, तैरभिषिक्तं संस्कृतम् । एवम्-अग्निमिवाचार्यम् । उपतिष्ठेद्-विनयेन सेवेत । अनन्तज्ञानोपगतोऽपि सन्-अनन्तं स्वपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं, तेनोपगतोऽपि सन् । किमङ्ग ? पुनरन्यः ।।९.१.११।।
(स.) केन प्रकारेण रमेत ?-इत्याह-जहा इति,आहिताग्निः कृतावसथादिाह्मणो येन प्रकारेण ज्वलनमग्निं नमस्यति, किम्भूतं ज्वलनं ? नानाहुतिमन्त्रपदाभिषिक्तं, तत्राहुतयो घृतप्रक्षेपादिरूपाः, मन्त्रपदानि 'अग्नये स्वाहा' इत्येवमादीनि, तैराहुतिमन्त्रपदैरभिषिक्तं दीक्षालङ्कृतमित्यर्थः, एवमग्निमिवाचार्यं विनीतः साधुरुपतिष्ठेद् विनयेन सेवेत, किम्भूतः साधुः ? अनन्तज्ञानोपगतोऽपि, अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तं, तेनोपगतः, सहितोऽपि सन्, किमङ्ग पुनरन्य इति. ||९.१.११।।
(सु.) केन प्रकारेण ? - इत्याह-जहाऽऽहिअग्गि...इति-यथाऽऽहिताग्निःकृतावसथादिाह्मणो ज्वलनं-अग्निं नमस्यति, किंविशिष्टमित्याह-नानाहुतिमन्त्रपदाभिषिक्तम्-आहुतयो-घृतप्रक्षेपादिलक्षणा मन्त्रपदानि-अग्नये स्वाहा इत्येवमादीनि, तैरभिषिक्तं-दीक्षासंस्कृतमित्यर्थः, एवं-अग्निमिवाचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट, इत्याह-अनन्तज्ञानोपगतोऽपीति-अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं, तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति ।।९.१.११।।
जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पि(प)उंजे । सक्कारए सिरसा पंजलीओ, कायग्गिरा भो ! मणसा वि निच्चं ।।९.१.१२।।
(ति.) एतदेव स्पष्टयन्नाह-यस्यान्तिके धर्मपदानि शिक्षेत । तस्यान्तिके विनय एव वैनयिकं प्रयुञ्जीत । तथा तं कायेन शिरसा प्राञ्जलिः-शिरसि प्रकर्षेण न्यस्ताञ्जलिः । गिरा-वाचा प्रियङ्करया | मनसा-भावप्रतिबन्धेन । भो-इत्यामन्त्रणे । अहो ! साधो! भवान् सत्कारयेत्-अभ्युत्थानादिभिः सन्मानयेत् ।।९.१.१२।।
(स.) एतदेव पुनः स्पष्टयति-जस्सं...इति-साधुर्यस्याचार्यादेः समीपे धर्मपदानि धर्मफलानि सिद्धान्तपदानि शिक्षेताऽऽदद्यात्, तस्याचार्यादेरन्तिके समीपे विनयं प्रयुञ्जीत, विनय एव वैनयिकं, तत् कुर्यादिति भावः, कथं विनयं कुर्यात् ?-इत्याह-गुरुं सत्कारयेत्, केन ? अभ्युत्थानादिना पूर्वोक्तेन युक्तः, पुनः शिरसा मस्तकेन प्राञ्जलिः सन्, तथा १. उपाद् देवपूजा'इतिशास्त्रविहितात्मनेपदं त्वत्र मूलस्थपदानुकरणत्वान्नेति ध्येयम् । २. अइत्यन्यत्र मुद्रितः |