________________
२९१
नवमम् अध्ययनम्
(स.) तत्र विशेषमाह-सिया'इति, स्यात् कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकोऽग्निर्न दहति न भस्मसात्कुर्यात्, आशीविषो वा भुजङ्गो वा कुपितो न भक्षयेन्न खादयेत्, तथा कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलमतिरौद्रं न मारयेन्न प्राणान् त्याजयेत्, एवमेतत् कदाचिद् भवति, परं नापि मोक्षो गुरुहीलनया गुरोराशातनया भवतीति. ।।९.१.७।। __ (सु.) अत्र विशेषमाह-सिया हु...इति, स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धाद्, असौ पावकः-अग्निः, न दहेत्-न भस्मसात्कुर्यात्, आशीविषो वा, भुजङ्गो-वा कुपितो वा न भक्षयेत्-न खादयेत्, तथा स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलंअतिरौद्रं न मारयेत्-न प्राणांस्त्याजयेत्, एवमेतत् कदाचिद् भवति, न चापि मोक्षो गुरुहीलनया-गुरोराशातनया कृतया भवतीति ।।९.१.७।।
जो पव्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, एसोवमासायणया गुरूणं ।।९.१.८।। (ति.) किञ्च-यो वा ददाति शक्तिनामकप्रहरणाग्रे, शीर्षेण प्रहारम् । अस्य भावार्थः प्राग्वत् ।।९.१.८।। ___ (स.) जो' इति-पुनः किञ्च यः पर्वतं शिरसा मस्तकेन भेत्तुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति शक्तेरग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषा उपमा आशातनया गुरूणाम् ।।९.१.८ ।।
(सु.) जो पव्वयं'इति, यः पर्वतं शिरसा-उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंह गिरिगुहायां वा प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदिति ।।९.१.८ ।।
सिया हु सीसेण गिरिं पि भिंदे, सिया हु सीहो कुविओ न भक्खे । सिया न भिंदिज्ज न सत्तिअग्गं, न यावि मुक्खो गुरुहीलनाए ।।९.१.९।। (ति.) अत्रापि विशेषमाह-अस्यापि भावार्थः प्राग्वत् ।।९.१.९ । ! (स.) अत्र विशेषमाह-सिया इति, स्यात् कदाचित् कश्चिद् वा