SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २९० दशवैकालिकं-टीकात्रिकयुतम् _ (सु.) अत्रैव दृष्टान्त-दार्टान्तिकयोर्महदन्तरम्, इत्येतदाह-आसी...इति आशीविषश्चापि-सर्पोऽपि परं सुरुष्टः सन्-सुक्रुद्धः सन्, किं जीवितनाशात्-मृत्योः परं नु कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनया अनुग्रहेऽप्रवृत्ताः, किं कुर्वन्ति ?-इत्याह-अबोधिं-निमित्तहेतुत्वेन मिथ्यात्वसंहतिं, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवम् ?-अतश्चाशातनया गुरोर्नास्ति मोक्षः, अबोधिसन्तानसम्बन्धेनानन्तसंसारिकत्वादिति ।।९.१.५।। जो पावगं जलियमवक्कमिज्जा, आसीविसो वा वि हु कोवइज्जा । जो वा विसं खायइ जीवियट्ठी, एसोवमासायणया गुरूणं ।।९.१.६ ।। (ति.) किञ्च-यः पावकं ज्वलितमवक्रामेत्-आक्रम्य तिष्ठेत् । आशीविषं वापि हि कोपयेत् । यो वा विषं खादति जीवितार्थी । एषोपमा-यथैषां मृत्युरूपापायप्राप्तिर्भवति। तथा गुरूणां आशातनया-कृतया तत्कारिणो नरकाद्याप्तिरूपोऽपायः स्यात् ।।९.१.६ ।। (स.) पुनराह-जो...इति-यः कोऽपि पावकमग्निं ज्वलितं सन्तमपक्रामेदवष्टभ्य तिष्ठति, आशीविषं वापि भुजङ्गमं वापि कोपयेद् रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी जीवितुकामः, एषा उपमाऽपायस्य कष्टस्य प्राप्ति प्रति, एतदुपमानमाशातनया गुरूणां सम्बन्धिन्या कृतया, तद्वत् कष्टं भवतीति. ।।९.१.६ ।। (स.) किञ्च-जो पावग...इति, यः पावकं-अग्निं ज्वलितं सन्तं अपक्रामेतअवष्टभ्य तिष्ठति, आशीविषं वापि हि-भुजङ्गमं वापि हि, कोपयेत्-रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी-जीवितुकामः, एषोपमा अपायप्राप्तिं प्रति एतदुपमानं, आशातनया कृतया गुरूणां सम्बन्धिन्या, तद्वदपायो भवतीति ।।९.१.६ ।। सिया हु से पावओ(य) नो डहिज्जा, आसीविसो वा कुविओ न भक्खे । सिया विसं हालहलं न मारे, न यावि मुक्खो गुरुहीलणाए ।।९.१.७।। (ति.) अत्रं विशेषमाह-स्यात् कदाचित् पावको न दहेत् । आसीविषो वापि कुपितो न भक्षयेत् । स्याद् विषं हालाहलं न मारयेत् । एवमपि मन्त्रादिप्रतिबन्धात् कदाचिद् भवति । न चापि मोक्षो गुरुहीलनात् ।।९.१.७ ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy