________________
२८९
नवमम् अध्ययनम्
(स.) अथ विशेषेण डहरस्य हीलनेदोषमाह-जे'इति-यश्चापि कश्चिदज्ञो नागं सर्प डहर इति बाल इति ज्ञात्वा आशातयति क्षुद्रकाष्ठादिना कदर्थयति, स नागः कदर्थ्यमानः, से तस्य कदर्थनाकारकस्याहिताय भवति, भक्षणेन प्राणनाशनात्, एष दृष्टान्तः, अथोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन्निर्गच्छति जातिपन्थानं द्वीन्द्रियादिजातिमा मन्दोऽज्ञः संसारे परिभ्रमति. ।।९.१.४।। ___ (सु.) विशेषेण डहरहीलनादोषमाह-जे यावि इति, यश्चापि कश्चिदज्ञो नागंसर्प, डहर इति-बाल इति, ज्ञात्वा-विज्ञाय, आशातयति-कलिञ्चादिना कदर्थयति, स कदर्थ्यमानो नागः, से-तस्य कदर्थकस्य-अहिताय भवति, भक्षणेन प्राणनाशनात्, एष दृष्टान्तः, अयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति जातिपन्थानं-द्वीन्द्रियादिजातिमार्ग, मन्दः-अज्ञः, संसारे परिभ्रमतीति ।।९.१.४।।
आसीविसो आवि परं सुरहो, किं जीवनासाउ परं नु कुज्जा | आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ।।९.१.५।। (ति.) अथैतद् दृष्टान्तदान्तिकयोर्महदन्तरमाह-आसीविषश्चापि परं सुरुष्टः किं जीवनाशादपरं तु कुर्यात् । आचार्यपादाः पुनरप्रसन्नाः-आशातनया अप्रसन्नीकृताः । अबोधिम्-प्रेत्य धर्मानवाप्तिम् । आशातयति-इति "ईषिग्रन्थ्यासिवन्दिविदिकारितान्तेभ्यो चुः [ ] इति युप्रत्यये आशातन:-आशातनकारी | गुर्वाशातनायाश्च मिथ्याजनकत्वात् तत्कारिणः । नास्ति मोक्षः ।।९.१.५।।
(स.) अत्र दृष्टान्तस्य दार्टान्तिकस्य च महदन्तरमित्येतदेवाह-आसीविसो'इतिआशीविषश्चापि सर्पोऽपि परं सुरुष्टः सन् क्रुद्धः सन्, किं जीवितनाशान्मृत्योः परं नु कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनया-ऽनुग्रहायाप्रवृत्ताः, किं कुर्वन्ति ?-इत्याह-अबोधिं निमित्तहेतुत्वेन मिथ्यात्वसंहतिं कुर्वन्ति, कथं ? तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमतो गुरोराशातनया नास्ति मोक्षः, अबोधिसन्तानबन्धेनानन्तसंसारिकत्वादिति. ।।९.१.५।।
१.वा वि' इति मुद्रितो पाठभेदोन्यत्र । २. कातन्त्रव्याकरणे कृत् सूत्रतः पञ्चम पादे ८५तमं सूत्रम् ।