________________
२८८
दशवैकालिकं-टीकात्रिकयुतम् तथाविधबुद्धिरहिता भवन्ति । ये च डहरा अपि-वयसा लघीयांसोऽपि । श्रुतबुद्ध्युपपेताःसत्प्रज्ञावन्तः । द्वयेऽपि आचारवन्तः-ज्ञानाद्याचाराराधकाः । गुणेषु-संग्रहोपग्रहादिषु, सुस्थित आत्मा येषां ते सुस्थितात्मानः ते, न हीलनीयाः ये हीलिताः शिखीवअग्निरिव हीलकान् । भस्मसात्कुर्युः ।।९.१.३।।
(स.) पगईइ इति-ये साधवस्ते गुरून् प्रत्येवं जानन्ति, प्ररूपयन्ति परं न तु हीलयन्ति, एवं किमित्याह-एके केचन वयोवृद्धाः प्रकृत्या स्वभावेन कर्मवैचित्र्यान्मन्दा अपि सद्बुद्धिरहिता अपि भवन्ति, तथान्ये केचन डहरा अप्यपरिणता अपि वयसा अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये श्रुतबुद्ध्या उपेताः सहिताः, तथा सत्प्रज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनी वृत्तिमाश्रित्याल्पश्रुता अपि सर्वथा आचारवन्तो ज्ञानाद्याचारसहिताः. पुनः किंविशिष्टाः ? गुणसुस्थितात्मानः, गुणेषु सुष्ठु भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये हीलिताः खिसिताः शिखीव अग्निरिव इन्धनसमूहं भस्मसात्कुयुः, ज्ञानादिगुणसमूहमपनयेयुरिति. ।।९.१.३ ।।
(सु.) अतो न कार्या हीलना, इत्याह-पगईए...इति, प्रकृत्या-स्वभावेन कर्मवैचित्र्यात् मन्दा अपि-सबुद्धिरहिता अपि भवन्त्येके-केचन वयोवृद्धा अपि, तथा डहरा अपि चअपरिणता अपि च वयसा अन्ये अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा ?-इत्याहये श्रुतबुद्ध्युपपेतास्तदा सत्प्रज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनी वृत्तिमाश्रित्य अल्पश्रुता इति, सर्वथा आचारवन्तः-ज्ञानाद्याचारसमन्विताः गुणसुस्थितात्मानः-गुणेषुसङ्ग्रहोपग्रहादिषु, सुष्ठु-भावसारं स्थित आत्मा येषां ते तथाविधाः, न हीलनीयाः, ये हीलिताः-खिसिताः शिखीव-अग्निरिवेन्धनसङ्घातं भस्मसात्कुर्यु:-ज्ञानादिगुणसङ्घातमपनयेयुरिति ।।९.१.३।।
जे आवि नागं डहरं ति नच्चा, आसायए से अहियाय होइ । एवायरियं पि हु हीलयंतो, नियच्छई जाइपहं खु मंदे ।।९.१.४।।
(ति.) विशेषेण डहरहीलनदोषमाह-यश्चापि-कश्चित् । नागम्-सर्पम् । डहर इति-बाल इति । ज्ञात्वा आशातयति-यष्ट्यादिना घट्टयति । स घट्टमानः । से-तस्य घट्टकस्य । अहिताय भवति । एवम् आचार्यमपि-लघीयांसमपि । हीलयन् । जातिपथम्द्वीन्द्रियादिजाति-मार्गम्। मन्दः-अज्ञः । खु-निश्चयेन । नितरां गच्छति-याति । अनन्तं संसारं परिभ्रमतीत्यर्थः ।।९.१.४ ।।।