________________
नवमम् अध्ययनम्
२८७ अनधीतागमः। इति विज्ञाय । मन्दादिशब्दैः हीलयन्ति । असूयया वा महाप्राज्ञस्त्वं, वयोवृद्धस्त्वं, बहुश्रुतस्त्वम् इत्येवं निन्दया मिथ्यात्वं प्रतिपद्यमानाः |
आसायणमिच्छत्तं, आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं, कुव्वइ दीहं च संसारं ।।१।। [ ]
इत्यजानन्त इव कुर्वन्ति । आशातनां न केवलं तस्य गुरोः तत्प्रतिष्ठापकानां च गुरूणां, ते दुःसाधव इति ।।९.१.२।।
(स.) जे इति-किञ्च ये चापि केवलद्रव्यसाधवोऽगम्भीरा भवन्ति, ते द्रव्यसाधवो गुरूणामाचार्याणामाशातनां लघुतापादनरूपां तत्स्थापनाया अबहुमानेन कुर्वन्ति, एकस्य, गुरोराशातनायां सर्वेषां गुरूणामाशातना इति हेतोगुरूणामिति बहुवचनं, मन्द इति ज्ञात्वा, सत्प्रज्ञाविकल इति ज्ञात्वा, तथा पुनः कारणान्तरस्थापितमप्राप्तवयसं गुरुं प्रत्ययं डहरोऽप्राप्तवयाः खल्वयं, तथायं गुरुरल्पश्रुतोऽनधीतसिद्धान्त इति ज्ञात्वा हीलयन्ति, किं कुर्वन्तो हीलयन्ति ? मिथ्यात्वं प्रतिपद्यमानाः, गुरुर्न हीलनीय इति तत्त्वमन्यथा जानन्तः, अतो गुरोहीलना न कार्या इत्याह. ||९.१.२।।
(सु.) जे यावि'इति, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किम् ?-इत्याह-मन्द इति गुरुं विदित्वा-क्षयोपशमवैचित्र्यात् तन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं डहरोऽयं-अप्राप्तवयाः खल्वयं, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किम् ?-इत्याह-हीलयन्तिसूयया असूयया वा खिसयन्ति, सूयया 'अतिप्रज्ञः त्वं वयोवृद्धो बहुश्रुत' इति, असूयया तु 'मन्दप्रज्ञस्त्वम् इत्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति, गुरुर्न हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः, कुर्वन्त्याशातनां-लघुतापादनरूपां, ते-द्रव्यसाधवः गुरूणां-आचार्याणां, तत्स्थापनाया अबहुमानेन, 'एकगुर्खाशातनायां सर्वेषामाशातना इति बहुवचनं, अथवा कुर्वन्त्याशातनां स्वसम्यग्दर्शनादिभावापह्रासरूपां ते गुरूणां सम्बन्धिनी, तन्निमित्तत्वादिति ।।९.१.२।।
पगईइ मंदा वि भवंति एगे, डहरा वि य जे सुयबुद्धोववेया | आयारमंतो गुणसुट्ठियप्पा, जे हीलिया सिहिरिव भास कुज्जा ||९.१.३।। (ति.) प्रकृत्या-स्वभावेनैव कर्मवैचित्र्याद् वयोवृद्धा अपि । मन्दाः-असत्प्रज्ञाः