________________
दशवैकालिकं-टीकात्रिकयुतम्
गुणलक्षणभावप्राणविनाशाय भवति. दृष्टान्तमाह-फलमिव कीचकस्य, कीचको वंशस्तस्य फलं यथा वधाय भवति, तस्मिन् सति तद्विनाशनात्, तद्वदिति. ।।९.१.१।।
२८६
(सु.) व्याख्यातमाचारप्रणिध्ययनम् । अधुना विनयसमाध्याख्यमारभ्यते - अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति, तत्र यत्नवता भवितव्यमित्येतदुक्तं, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव भवतीत्येतदुच्यते । उक्तं च
"आयारपणिहाणंमि, से सम्मं वट्टई बुहे ।
णाणाईणं विणीए जे, मुक्खट्ठा निव्विगिच्छए ।।१।।"
इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति थंभा व इत्यादि, स्तम्भाद् वा मानाद् वा जात्यादिनिमित्तात् क्रोधाद् वा अक्षान्ति-लक्षणात्, माया-प्रमादादिति, मायातोनिकृतिरूपायाः, प्रमादात्-निद्रादेः सकाशात्, किम् ? - इत्याह- गुरोः सकाशे - आचार्यादेः समीपे विनयमासेवनाशिक्षादिभेदभिन्नं न शिक्षते - नोपादत्ते, तत्र स्तम्भात् 'कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामि इति, एवं क्रोधात् क्वचिद् वितथकरणचोदितो रोषाद् वा’इति, मायातः 'शूलं मे बाधत' इत्यादिव्याजेन प्रमादात् प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यास - श्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति - गुरोः सकाशे विनये न तिष्ठति - विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तम्भादिर्विनयशिक्षाविघ्नहेतुस्तस्य जडमतेः, अभूतिभाव इतिअभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः किम् ? - इत्याह- वधाय भवति -गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह - फलमिव कीचकस्य - कीचको - वंशः, तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्, तद्वदिति ।।९.१.१।।
जे यावि मंदि त्ति गुरुं विइत्ता, डहरो इमो अप्पसुउं त्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा, करंति आसायण ते गुरूणं ।। ९.१.२।।
(ति.) किंच- ये चापि केचन द्रव्यसाधवः मन्द इति गुरुं विदित्वा - सत्प्रज्ञाविकल इति, कारणान्तरस्थापितमप्राप्तवयसम् । डहरोऽयम् - अप्राप्तवयाः । अल्पश्रुतः
१. 'अप्पसुअं'त्ति' इति मुद्रितपाठभेदः ।।