________________
।। नवमं अध्ययनं - विनयसमाधिः तत्र प्रथमोद्देशकः ।।
थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विणयं ने सिक्खे | सोचे व ऊ तस्स अभूइभावो, फलं व कीयस्स वहाय होइ ।।९.१।।
(ति.) अनन्तराध्ययने निरवद्ये वचसि यतितव्यमित्युक्तम् । तच्च विनयसम्पन्नस्यैव भवति-इत्यनेन सम्बन्धेनायातं विनयसमाध्यध्ययनं व्याख्यायते । तस्य चेदमादि सूत्रम्-अहं गुरोः सकाशात् । जात्यादिभिरुत्तम इति स्तम्भात् । अहं गुरुभिर्गाढमाक्रुष्ट इति क्रोधात् । अयमेतदपि न वेत्ति ? इति मदेन लाघवभयात् । शक्तोऽपि न शक्नोमि‘इति मायातः । प्रमादाद् - निद्रादेः । गुरोः सकाशे । विनयम् - ग्रहणासेवनारूपम् । न शिक्षेत । स एव स्तम्भादिर्विनयशिक्षाविघ्नहेतुः । तस्य अभूतिभावः - असम्पद्भावः । वधाय भवति - गुणादिभावप्राणविनाशाय भवति । फलमिव कीचकस्य - कीचको वंशः, स हि फले सञ्जाते सति विनश्यति इत्यर्थः ।।९.१.१।।
(स.) थंभेति-अथ विनयसमाध्याख्यं नवममध्ययनं व्याख्यायते, तस्य नवमाध्ययनस्य चत्वार उद्देशाः, तत्र प्रथमोद्देशकमाह, इह चायं सम्बन्धः- पूर्वाध्ययने निष्पापं वचनमाचारे प्रणिहितस्य सम्यक् स्थितस्य भवतीति तत्र यत्नवता भाव्यम्-इत्येतदुक्तम्, इह त्वाचारप्रणिहितो यथायोग्यविनयसम्पन्न एव भवति, इत्येतदुच्यते,
तथाहि - शिष्यो गुरोः सकाशे - आचार्यादेः समीपे, विनयमासेवनारूपं शिक्षारूपं च न शिक्षते, नोपादत्ते, न गृह्णातीत्यर्थः, कस्मात् ? स्तम्भाद् वा, 'कथमहं जात्यादिमान् जात्यादिहीनस्य गुरोः समीपे शिक्षे ? तथा क्रोधात् कथञ्चिदसत्यकरणप्रेरितो रोषाद् वा, तथा मायातः ‘शूलं मे बाधत' इत्यादिकपटेन, तथा प्रमादात् प्रक्रान्तमुचितमजानन् निद्रादीनां व्यासङ्गेन, स्तम्भादीनां क्रमेणोपन्यासश्च इत्थमेवामीषां विनयस्य विघ्नतामाश्रित्य ख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः समीपे विनयं न शिक्षते, अन्ये त्वाचार्या एवं पठन्ति - गुरोः समीपे विनये न तिष्ठति, विनये न वर्त्तते, विनयं नासेवत इत्यर्थः । इह स एव स्तम्भादिर्विनय - शिक्षाविघ्नहेतुस्तस्य जडमतेरभूतिभाव इति, अभूतेर्भावोऽभूतिभावः, असम्पद्भाव इत्यर्थः किम् ? - इत्याह-वधाय भवति, १. 'न तिट्ठइ' टीकान्तरे पाठान्तरत्वेन विवृतम्' न तिष्ठति इति । 'विणयं न चिट्ठे' - चूर्णिपाठः,