________________
दशवैकालिकं-टीकात्रिकयुतम्
२८४
से तारिसे दुक्खसहे जिइंदिए, सुएण जुत्ते अममे, अकिंचणे । विरायई कम्मघणंसि अवगए, कसिणब्भपुडावगमे व चंदमि त्ति बेमि ।।६३ ।।
( ति . ) ततश्च - स तादृशः - अनन्तरोदितगुणः साधुः । दुःखसहः - परीषहसहः । जितेन्द्रियः श्रुतेन युक्तः । अममोऽकिञ्चनः विराजते । कर्मघने-ज्ञानावरणीयादिकर्ममेघ । अपगते-सति सञ्जातकेवलालोकः । कृष्णाभ्रपुटावगमे - शरदि । इव चन्द्रमाः इति ब्रवीमि-इति पूर्ववत् ।। श्रीतिलकाचार्य टीकायामष्टममध्ययनं समाप्तम्
(स.) ततश्च साधुः कीदृशो भवेत् ? - इत्याह-से इति, स तादृशः पूर्वोक्तगुणयुक्तः साधुर्विराजते, क इव ? चन्द्रमा इव क्व सति ? कृत्स्नाभ्रपुटापगमे समस्तानामभ्रपुटानामपगमे नाशे सति, अयं भावः यथा शरत्काले चन्द्रमाः शोभते तथा साधुरप्यपगतकर्मघनः समासादितकेवलालोको विराजत इत्यर्थः किम्भूतः साधुः ? दुःखसहः परीत्रहपीडासहः पुनः किम्भूतः साधुः ? जितेन्द्रियः पराजित श्रोत्रादिपञ्चेन्द्रियविषयः, पुनः किम्भूतः साधुः ? श्रुतज्ञानेन युक्तो विद्यावानित्यर्थः, पुनः किम्भूतः साधुः ? अममः सर्वत्र ममतारहितः पुनः किम्भूतः साधुः ? अकिञ्चनः किञ्चनरहितः, ब्रवीमीति पूर्ववत्. ।।८.६३ ।।
इति श्रीदशवैकालिके सूत्रे श्रीसमयसुन्दरोपाध्यायविरचितायां दीपिकायामष्टमाध्ययनं सम्पूर्णं. श्रीरस्तु .
(सु.) ततश्च - से तारिसे इति, स तादृश अनन्तरोदितगुणयुक्तः साधुर्दुःखसहःपरीषहजेता, जितेन्द्रियः- पराजितश्रोत्रेन्द्रियादिः, श्रुतेन युक्तो - विद्यावानित्यर्थः, अममःसर्वत्र ममत्वरहितः, अकिञ्चनो - द्रव्यभावकिञ्चनरहितः, विराजते -शोभते, कर्म्मघनेज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगमे इव चन्द्रमा इति यथा कृत्स्ने अभ्रपुटे कृष्णे वा अपगते सति चन्द्रमा विराजते शरदि, तद्वदसावपगतकर्म्मघनः समासादितकेवलालोको विराजते ।।८.६३ ।। ब्रवीमीति पूर्ववत् । ।
।। इति सुमति० वृत्तौ 'आचारप्रणिध्याख्यमष्टममध्ययनं समाप्तम् ।।
१. 'चंदिमि' इति पाठोन्यत्र मुद्रितः ।।