________________
अष्टमम् अध्ययनम्
२७७
एतदेव विशेष्यते-उच्चारभूमिसम्पन्नं- उच्चार-प्रश्रवणादिभूमियुक्तं, तद्रहिते असकृत् तदर्थं निर्गमनादिदोषात् तथा स्त्रीपशुविवर्जितमिति, एकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डक-विवर्जितं रूपा ( स्त्र्या) द्यालोकनादिरहितमिति । । ८.५१ । ।
विवित्ताय भवे सिज्जा, नारीणां न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ।।८.५२ ।।
(ति.) उपाश्रये धर्मकथाविधिमाह - विविक्ता - अन्यसाधुभिर्विरहिता । शय्या - वसतिः, यदि भवेत् ततः । नारीणाम् - केवलानाम् । न लपेत् कथाम् - शङ्कादोषप्रसङ्गात् । साधुसहितायां च तासामपि कथयेत् । तथा गृहिसंस्तवम्-गृहिभिः परिचयम् । न कुर्यात्-स्नेहादिसम्भवात् । साधुभिः संस्तवं कुर्यात् - तत्संस्तवे चारित्रस्थैर्यसम्भवः ।।८.५२ ।।
(स.) तदित्थंभूतं लयनं सेवमानस्य साधोः धर्मकथाविधिमाह - विवित्ता' इति - साधुर्यद्येवंविधा शय्या वसतिर्भवेत्, तदा नारीणां स्त्रीणां कथां न कथयेत्, कथं ? शङ्कादिदोषप्रसङ्गात् योग्यतां विज्ञाय पुरुषाणां कथयेत्, नारीणां त्वविविक्तायां वसतौ कथयेदपि किम्भूता शय्या वसतिः ? विविक्ता तदन्यसाधुभिर्वर्जिता, यत्रान्ये साधवो न सन्ति, चशब्दात् तथाविधभुजङ्ग-प्रायैकपुरुषसंयुक्ता भवेत्, तथापि न नारीणां कथां कथयेत्, तथा पुनः साधुर्गृहिसंस्तवं न कुर्यात्, स्नेहादिदोषसम्भवात् साधुभिस्तु समं संस्तवं परिचयं काले कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावं कुर्यादिति. । । ८.५२ । ।
(सु.) तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह - विवित्ता य' इति, विविक्ता च तदन्यसाधुभिर्विवर्जिता, चशब्दात् तथाविध-भुजङ्गप्रायैकपुरुषसंयुक्ता भवेच्छय्यावसत्यादि ततो नारीणां स्त्रीणां न कथयेत् कथां, शङ्कादिदोषप्रसङ्गादौचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा गृहिसंस्तवं-गृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसम्भवात् कुर्यात् साधुभिः सह संस्तवं - परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति ।।८.५२ ।।
जहा कुक्कुडपोयस्स, निच्चं कुललओ भयं ।
एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं । ८.५३ ।।