________________
२७८
दशवैकालिकं-टीकात्रिकयुतम् (ति.) कथञ्चिद् गृहस्थसंस्तवोऽपि भवतु । स्त्रीसंस्तवस्तु न कार्य एव । तद्गतं विधिमाह-यथा कुर्कुटपोतस्य नित्यम् । कुललतः-मार्जारात् । भयम् । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं-यथा कुर्कुटपोतस्य नित्यं कुललतो मार्जाराद् भयं । एवं खु-निश्चये, ब्रह्मचारिणः स्त्रीविग्रहात्-स्त्रीशरीराद् भयम् ।।८.५३।।।
(स.) कथञ्चिद् गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो नैव कर्तव्य इत्यत्र कारणमाहजहा-इति-यथा कुक्कुटपोतस्य कुक्कुटबालस्य नित्यं सर्वकालं कुललतो मार्जाराद् भयं, एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात् स्त्रीशरीराद् भयं, विग्रहग्रहणं मृतशरीरादपि भयख्यापनार्थम्. ।।८.५३।।
(सु.) कथंचिद् गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्त्तव्य एवेत्यत्र कारणमाहजहा इति, यथा कुर्कुटपोतस्य-कुर्कुटशिशोर्नित्यं-सर्वकालं, कुललतो मार्जाराद् भयं एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात्-स्त्रीशरीराद् भयं, विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति ।।८.५३।। चित्तभित्तिं न निज्झाए, नारिं वा सुयलंकियं । भक्खरं पिव दळूणं, दिहिँ पडिसमाहरे ||८.५४।।
(ति.) यतश्चैवं ? - अतः चित्रभित्तिगतामपि स्त्रियं न निध्यायेत् । नारी वा सुष्ठु अलङ्कृतां-उपलक्षणत्वादनलङ्कृतामपि । कथञ्चिद् दर्शनेऽपि भास्करमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत्-निवर्तयेत् ।।८.५४ ।।
(स.) यतश्चैवं, ततः किं कार्यम् ? - इत्याह-चित्तभित्ति-इति-एवंविधामपि नारी साधुन निध्यायेन्न पश्येत्, किम्भूतां नारी ? चित्रगतां, पुनः किम्भूतां नारी ? स्वलङ्कृतामलङ्कारैः शोभिताम्, उपलक्षणत्वादनलकृतामपि न निरीक्षेत, कथञ्चिद् दर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेन्निवर्तयेदिति. ।।८.५४ ।।
(सु.) यतश्चैवं ? अतः चित्तभित्तिं इति, चित्रभित्ति-चित्रगतां स्त्रियं न निरीक्षेतन पश्येत्, नारी वा सचेतनामेव स्वलकृतां, उपलक्षणमेतदनलङ्कृतां च न निरीक्षेत, कथंचिद् दर्शनयोगेऽपि भास्करमिवादित्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेत् द्रागेव निवर्तयेदिति ।।८.५४।।