________________
૨૭૬
दशवैकालिकं-टीकात्रिकयुतम् साधूनां नाधिकारः कथने इति वाच्यम् ।।८.५० ।। ... (स.) नक्खत्तं इति-पुनः किंच साधुर्गृहिणा पृष्टः सन्नेतानि गृहिणामसंयतानां नाचक्षीत न ब्रूयात्, एतानि कानि ?-इत्याह-नक्षत्रमश्विन्यादि, स्वप्नं शुभाशुभफलमनुभूतादि, योगं वशीकरणादि, निमित्तमतीतादि, मन्त्रं वृश्चिकमन्त्रादि, भेषजमतिसारादीनां रोगाणामौषधम्, एतत् षट्कं किंविशिष्टम् ?-इत्याह-भूताधिकरणं पदं, भूतान्येकेन्द्रियादीनि सङ्टनादिनाधिक्रियन्ते व्यापाद्यन्तेऽस्मिन्निति. ततश्च तदप्रीतिपरिहारार्थमिदं ब्रूयात्, यतस्तपस्विनामत्र नक्षत्रादौ नाधिकारः. ।।८.५० ।।
(सु.) किञ्च-नक्खत्तं'इति, गृहिणा पृष्टः सन-नक्षत्रं-अश्विन्यादि, स्वप्नंशुभाशुभफलमनुभूतादि, योग-वशीकरणादि, निमित्तमतीतादि, मन्त्रं-वृश्चिकमन्त्रादि, भेषजं अतीसाराद्यौषधं, गृहिणां-असंयतानां तदेतन्नाचक्षीत, किंविशिष्टम् ?-इत्याहभूताधिकरणं पदमिति भूतानि-एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीति-परिहारार्थमित्येवं ब्रूयात्-अनधिकारोऽत्र तपस्विनामिति ।।८.५० ।।
अन्नत्थपगडं लेणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थी-पसुविवज्जियं ।।८.५१।।
(ति.) अन्यार्थम्-न साध्वर्थं, प्रकृतम्-निवर्तितम् । लयनम्-उपाश्रयः । शयनाऽऽसने विद्यते यत्र, मत्वर्थीयेऽचि-शयनासनम्-फलकपीठयुक्तमित्यर्थः | उच्चारभूमिसम्पन्नम्-उच्चार-प्रश्र(स्र)वणभूमियुक्तम् । स्त्री-पशु-पण्डकविवर्जितम्-एकग्रहणे सजातीयग्रहणात् । भजेत्-आश्रयेत् ।।८.५१।।
(स.) अन्नटुं'इति-पुनः किञ्च साधुरेवं लयनं स्थानं वसतिरूपं भजेत् सेवेत, किम्भूतं लयनम् ? अन्यार्थं प्रकृतं, न साधुनिमित्तं कृतं, तथा शयनासनमप्यन्यार्थप्रकृतं संस्तारकपीठकादि सेवेत, पुनः किम्भूतं लयनम् ? उच्चारभूमिसंपन्नमुच्चारप्रस्रवणादिभूम्या संयुक्तं, कथम् ? उच्चारादिभूमिरहिते स्थाने वारवारमुच्चारादिनिर्गमने दोषा भवन्ति, पुनः किम्भूतं लयनं ? स्त्रीपशुविवर्जितं, 'एकग्रहणेन तज्जातीयानां ग्रहणमिति न्यायात्, स्त्रीपशुपण्डकविवर्जितं, स्त्रीप्रमुखालोकनादिरहितमित्यर्थः. ।।८.५१।।
(सु.) किञ्च-अन्नद्रु'इति, अन्यार्थं प्रकृतं, न साधुनिमित्तमेव निवर्तितं, लयनंस्थानं वसतिरूपं भजेत्-सेवेत, शयनासनमित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः,