SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अष्टमम् अध्ययनम् २७५ उपहसेत् मुनिः- उपहासस्य ज्ञानावरणीयकर्मबन्धहेतुत्वात् । अधीतदृष्टिवादस्य च वाक्स्खलितं न सम्भवत्येव ।।८.४९ ।। (स.) अथ प्रस्तुतस्योपदेशस्याधिकारेण इदमाह - आयार' इति - मुनिस्तमाचारादिधरं नोपहसेत्, किम्भूतं तम् ? आचार - प्रज्ञप्तिधरम्, आचारधरः स्त्रीलिङ्गादीनि जानाति, प्रज्ञप्तिधरस्तान्येव सविशेषणानि, इत्येवंभूतं, पुनः किंभूतं ? दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपा-ऽऽगम-वर्णविकारादिविज्ञं, किं कृत्वा नोपहसेत् ? तं तादृशं वाग्विस्खलितं ज्ञात्वा विविधमनेकप्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय नोपहसेत्, किन्त्वेवं जानाति वदति च, अहो खल्वाचारादिधरस्य वचन एवं कौशलम्, इह च दृष्टिवादमधीयानमित्युक्तम्, अत इदं गम्यते नाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनासम्भवात्, यद्येवंभूतस्यापि स्खलितं सम्भवति, न चैवमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां सम्भवति न चासौ हसितव्य इति ।।८.४९ ।। (सु.) प्रस्तुतोपदेशाधिकार एवेदमाह - आयार... इति, आचार-प्रज्ञप्तिधरमिति आचारधरः-स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतं, तथा दृष्टिवादमधीयानं प्रकृति-प्रत्यय- लोपा -ऽऽगम-वर्ण-विकारादिवेदिनं वाग्विस्खलितं ज्ञात्वा विविधमनेकैः प्रकारैः लिङ्गभेदादिभिः स्खलितं विज्ञाय न तमाचारादिधरमुपहसेन्मुनिः, 'अहो नु खल्वाचारादिधरस्य वाचि कौशलं इत्येवं, इह च दृष्टिवादमधीयानमित्युक्तम्, अत इदं गम्यते नाधीतदृष्टिवादं तस्य ज्ञानाप्रमादा- तिशयतः स्खलनाऽसम्भवात्, यद्येवंभूतस्यापि स्खलितं सम्भवति न चैनमित्युपहसेदित्युपदेशस्ततोऽन्यस्य सुतरां सम्भवति, नासौ हसितव्य इति ।।८.४९ ।। 1 नक्खत्तं सुमिणं जोगं, निमित्तं मंत भेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं । ८.५० ।। (ति.) अन्यं चोपदेशमाह-नक्षत्रम् - यात्राद्यर्थम् अश्विन्यादि । स्वप्नम् - स्वप्नस्य शुभाशुभविचारः । योगं-वशीकरणादि । निमित्तम् - अतीतादि । मन्त्रः- वृश्चिकमन्त्रादिः । भेषजम् - अतीसाराद्योषधम् । गृहिणः पृच्छतः तन्नाख्येयात् । भूताधिकरणं पदम् । नक्षत्रादौ साधुना कथिते गृहस्थेनारम्भे क्रियमाणे भूतानाम् एकेन्द्रियानाम्, अधिको रण इव रणो यत्र पदे विनाशहेतुत्वात् तद्भूताधिकरणं, पदं स्थानं, ततश्चैषां प्रश्ने
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy