SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं- टीकात्रिकयुतम् (सु.) किञ्च - अप्पत्तियं' इति, अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति-यया भाषया भाषितया अप्रीतिमात्रं भवेत्, तथा आशु शीघ्रं कुप्येद् वा परो रोषकार्यं दर्शयेत्, सर्वशः-सर्वावस्थासु तामित्थंभूतां न भाषेत भाषां, अहितगामिनीमुभयलोकविरुद्धामिति ।।८.४७ । । २७४ दिट्टं मियं असंदिद्धं, पडिपुन्नं वियं जियं । अयंपिरमणुव्विग्गं, भासं निसर अत्तवं ।।८.४८ ।। (ति.) यादृशीं भाषेत तामाह - दृष्टाम् दृष्टार्थविषयाम् । मिताम् । असन्दिग्धाम् । प्रतिपूर्णाम्-स्वरादिभिः। वियंजियं, अञ्जु व्यक्ति-म्रक्षण - कान्ति-गतिषु [ ] व्यक्ताम् अलल्ल-मन्मनाम् अकम्प्रां-निश्चलाम् । अनुद्विग्नाम्-नोद्वेगकारिणीम् । भाषां निसृजेत्वदेत् । आत्मवान्-सचेतनः ।।८.४८ ।। (स.) भाषणस्योपायमाह - दिट्ठे' इति - आत्मवान् सचेतनः साधुरीदृशीं भाषां निसृजेद् ब्रूयात्, ईदृशीं कीदृशीम् ? - इत्याह-दृष्टां दृष्टार्थविषयां, पुनर्मितां स्वरूप - प्रयोजनाभ्यां स्तोकां, पुनरसन्दिग्धां शङ्कारहितां, पुनः प्रतिपूर्णां स्वरादिभिः व्यक्तां प्रकटां, पुनर्जितां परिचितां, पुनरजल्पन-शीलां, न उच्चैर्न नीचैर्लग्नविलग्नां, पुनरनुद्विग्नां, नोद्वेगकारिणीमेवंभूतां भाषां साधुब्रूयात् ।।८.४८ । । , (सु.) भाषणोपायमाह - दिट्ठ 'इति, दृष्टां दृष्टार्थविषयां, मितां स्वरूपप्रयोजनाभ्याम्, असंदिग्धां - निःशङ्कितां, प्रतिपूर्णां स्वरादिभिः व्यक्तां - अलल्लां, जितां परिजि(चि)ताम्, अजल्पनशीलां नोच्चैर्लग्नविलग्नाम्, अनुद्विग्नां-नोवेगकारिणीमेवंभूतां भाषां, निसृजेत् ब्रूयात्, आत्मवान् सचेतन इति ।।८.४८ ।। आयार-पन्नत्तिधरं, दिट्ठीवायमहिज्जगं । 'वैइविक्खलियं नच्चा, न तं उवहसे मुणी ।।८.४९ ।। (ति.) विशेषोपदेशंमाह - आचाराङ्गम् । प्रज्ञप्तिः भगवत्यङ्गं तयोर्धारिणम् । दृष्टिवादाध्येतारम्। कथञ्चिद् वाचि लिङ्गवचनादिभिः स्खलितं ज्ञात्वा । न तम् १. (ति) टीकायां 'वियंजियं पदं बियंजियं' 'व्यक्ताम् इति तत्राधारः वृद्धविवरणं 'वियंजियं' इति पाठः [दस. चुण्णि. मुनिपुण्यविजयसंपादिते [वि.२०६०] पृष्ठ १९७] । चूर्णौ तु वियं जियं इति द्वौ पदौ चिवृतौ - (स)(सु) टीके चूर्णि मनुसृते] ।। २. 'वायवि. - मुद्रितः पाठभेदः ||
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy