________________
२७३
अष्टमम् अध्ययनम्
(सु.) किञ्च-न पक्खओ'इति, न पक्षतः-पार्श्वतः, न पुरतो-ऽग्रतो, नैव कृत्यानामाचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्त्तते, यथासंख्यमविनय-वन्दमानान्तरायाऽदर्शनादिदोष-प्रसङ्गात्, न चोरं समाश्रित्योरोरुपऍरुं कृत्वा तिष्ठेद् गुन्तिके, अविनयादिदोषप्रसङ्गादिति उक्तः कायप्रणिधिः ।।८.४५।।
अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ||८.४६ ।।
(ति.) वागप्रणिधिमाह-अपृष्टः-निःकारणम् । न भाषेत । भाषमाणस्य-गुरोः | अन्तरा-विचाले, यथा, नेदमितत्थं, किं तद्देवमिति । पृष्ठिमांसंपरोक्षदोषकीर्तनरूपम | न खादेत्-न भाषेत । मायामृषां च-मायाप्रधानां मृषां वाचम् । वर्जयेत् ।।८.४६ ।।
(स.) अथ वाक्यप्रणिधिमाह-अपुच्छिओ इति-साधुरपृष्टः सन् निष्कारणं न भाषेत, पुनर्भाषमाणस्यान्तरापि न भाषेत. न चेदम्, 'इत्थं तद्देवमिति. तथा पृष्ठिमांसं परोक्षदोषकीर्तनरूपं, न खादेन्न भाषेत, पुनर्मायामृषां मायाप्रधानं मृषावादं विवर्जयेदिति. ||८.४६ ।।
(सु.) वाक्प्रणिधिमाह-अपुच्छिओ'इति, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, 'नेदमित्थं किं तर्हि, एवमिति, तथा पृष्ठिमांसं परोक्षदोषकीर्तनरूपं न खादेत् न भाषेत, मायामृषां-मायाप्रधानां मृषावाचं विवर्जयेदिति ।।८.४६ ।।
अप्पत्तियं जेण सिया, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहियगामिणिं ||८.४७।। (ति.) किञ्च-न विद्यते प्रीतिर्यत्र तद् अप्रीतिकम् । येन कस्यचिन्न स्यात् । आशु-शीघ्रम्। कुप्येद् वा परः । सर्वशः-सर्वथा । ताम्-भाषाम् । न भाषेत । अहितगामिनीम्-अहिते नरकादौ गमयतीत्येवं शीला अहितगामिनी, ताम् ।।८.४७ ।।
(स.) अप्पत्तिअं'इति–पुनः किञ्च साधुरित्थंभूतां भाषां न भाषेत. इत्थं कीदृशीं? प्राकृतशैल्या 'येन इति यया भाषयाऽप्रीतिरप्रीतिमात्रं भवेत्, तथा आशु शीघ्रं कुप्येद् वा परो रोषकार्यं दर्शयेत्, सर्वत्र सर्वास्वस्वस्थासु तामीदृशी भाषां न भाषेत, पुनरहितगामिनी-मुभयलोकविरुद्धां न भाषेत. ।।८.४७।।