________________
२७२
दशवैकालिकं-टीकात्रिकयुतम्
परत्र कुशलानुबन्धतः, उभयलोकहितमित्यर्थः, येनार्थेन ज्ञानादिना करणभूतेन गच्छति सुगतिं, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकारे उक्तव्यतिकरसाधनोपायमाह-बहुश्रुतं आगमवृद्धं पर्युपासीत-सेवेत, सेवमानश्च पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति ।।८.४३ ।।
हत्थं पायं च कायं च पणिहाय जिइंदिए ।
अल्लीणगुत्तो निसीए, सगासे गुरुणो मुणी ।।८.४४ ।।
( ति.) तदुपास्ति विधिमाह - हस्तं पादं च कायं च । प्रणिधाय - सङ्कोच्य । जितेन्द्रियः-अनन्यव्यापारेन्द्रियः । आ - सामस्त्येन लीनः- लयवान्, उपयुक्तः । गुप्तःतिसृभिर्गुप्तिभिः । निषीदेद् गुरोः सकाशे मुनिः ।।८.४४ ।।
(स.) हत्थं इति - पुनः किञ्च मुनिर्गुरोः सकाशे समीपे निषीदेत्. ?
कीदृशस्सन् ? - आलीनगुप्त ईषल्लीन उपयुक्त इत्यर्थः । किं कृत्वा निषीदेत् ? हस्तं च पादं च कायं च प्रणिधाय संयम्य, पुनः किं कृत्वा ? जितेन्द्रियो निभृतो भूत्वा . ।।८.४४ ।।
(सु.) पयुर्पासीनश्च – हत्थं ' इति, हस्तं पादं च कायं च प्रणिधायेति संयम्य, जितेन्द्रियो निभृतो भूत्वा, आलीनगुप्तो निषीदेत्, ईषल्लीन उपयुक्त इत्यर्थः सकाशे गुरोर्मुनिरिति ।।८.४४।।
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ ।
न य ऊरं समासिज्जा, चिट्ठिज्जा गुरुणंऽतिए ।।८.४५।।
,
(ति.) क्व निषीदेत् ? इत्याह-न पक्षतः पार्श्वतः । न पुरतः । नैव कृत्यानाम्गुरूणां पृष्ठतः । न च स्वयमप्यूरुं समासृज्य । ऊरोरुपर्यूरुं कृत्वा तिष्ठेद् गुर्वन्तिकेअविनयादिदोषप्रसङ्गात् । । उक्तः कायप्रणिधिः ।।८.४५।।
(स.) न' इति - पुनः किं कार्य ? साधुः कृत्यानामाचार्याणां न पक्षतः पार्श्वतो निषीदेत्, एवं न पुरतोऽग्रतः, नापि पृष्ठतो मार्गतः यथासङ्ख्यमविनय - वन्दमानान्तरायाऽदर्शनादिदोषाः प्रभवन्ति, पुनस्तत्र ऊरुं समाश्रित्य ऊरोरुपर्यूरुं कृत्वा न तिष्ठेत्, गुरोरन्तिकेऽविनयादिदोषप्रसङ्गात्. - इत्युक्तः कायप्रणिधिः, ।।८.४५।।