________________
अष्टमम् अध्ययनम्
युञ्जीत । ध्रुवम् निश्चितम् । सामान्येन सर्वत्र विशेषतोऽनुप्रेक्षाकाले मनोयोगम्, अध्ययनकाले वाग्योगं, प्रत्युपेक्षाकाले काययोगम् । फलमाह-युक्तश्च व्यापृतः । श्रमणधर्मेऽर्थं लभतेऽनुत्तरम्-केवलज्ञानरूपम् ।।८.४२ ।।
२७१
(स.) जोगं इति एवं योगं च त्रिविधं मनो- वाक्- कायव्यापारं श्रमणधर्मे क्षान्तिप्रमुखलक्षणे युञ्जीत, किंभूतः साधुः ? अनलस उत्साहवान्, ध्रुवं कालादीनामौचित्येन नित्यं सम्पूर्णं, सर्वत्र प्रधानोपसर्जनभावेन वा अनुप्रेक्षाकाले मनोयोगम्, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति . फलमाह - युक्त एवं व्यापृतः कुत्र ? श्रमणधर्मे दशविधे, लभते अर्थं प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति. ।।८.४२ । ।
(सु.) तथा - जोगं च' इति, योगं च त्रिविधं - मनो- वाक्- कायव्यापारं श्रमणधर्मेक्षान्त्यादिलक्षणे युञ्जीत, अनलसः - उत्साहवान्, ध्रुवं - कालाद्यौचित्येन नित्यं सम्पूर्णं, सर्वत्र प्रधानोपसर्जनभावेन वा अनुप्रेक्षाकाले मनोयोगं, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति, फलमाह - युक्त एवं व्यापृतः श्रमणधर्मे दशविधे अर्थं लभते - प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति ।। ८.४२ ।।
इहलोगपारत्तहियं, जेण गच्छइ सोगई ।
बहुस्सु पज्जुवासिज्जा, पुच्छिज्जत्थविणित्थयं ।।८.४३ ।।
(ति.) एतदेवाह - बहुश्रुतम् - आगमधरम् पर्युपासीत । तत्पार्श्वे अर्थविनिश्चयम् । इहलोकपरत्र हितम् - कल्याणावहम् । पृच्छेत् । येन ज्ञातेन । सुगतिं - सिद्धिलक्षणाम् । पारम्पर्येण गच्छति ।।८.४३ ।।
(स.) पुनरेतदेवाह - इह ' इति - इह लोके परत्र लोके च हितं कथम् ? इह लोकेऽकुशलप्रवृत्ति-दुःखनिरोधेन, परलोके च कुशलानुबन्धत उभयलोकहितमित्यर्थः, येनार्थेन ज्ञानादिना करणभूतेन साधुः सुगतिं पारम्पर्येण सिद्धिमित्यर्थः, गच्छति ।
अथोपदेशाधिकार उक्तव्यतिकरसाधनस्योपायमाह - बहुश्रुतमागमवृद्धं साधुः पर्युपासीत सेवेत, तं सेवमानश्च साधुः पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वा अर्थावितथभावमिति । । ८.४३ । ।
(सु.) एतदेवाह - इहलोअ ' इति, इहलोक - परत्रहितमिहाकुशल-प्रवृत्तिदुःखनिरोधेन, १. सुग्गइं' इति मुद्रितः पाठान्तरः ।