________________
दशवैकालिकं-टीकात्रिकयुतम्
(स) अथ धर्मस्योपायमाह - कोहमिति - साधुः क्रोधं मानं मायां लोभं च पापवर्धनं पापस्य हेतवः, यतश्चैवं ? तत एतांश्चतुरो दोषान् क्रोधादीन् वमेत् त्यजेत् किं कुर्वन् ? आत्मनो हितमिच्छन्, एतद् वमने हि सर्वसम्पदिति ।। ८.३६ । ।
२६८
(सु) तदुपायमाह - कोहं इति, क्रोधं मानं च मायां च, लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्द्धनव्यपदेशः, यतश्चैवम् ? अतो वमेच्चतुरो दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसम्पदिति ।।८.३६ ।।
कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताइं नासेइ, लोभो सव्वविणासणो ।। ८.३७ ।।
(ति) क्रोधादीनां सामर्थ्यमाह - ( कोहो ...इति ) ।।८.३७।।
(स.) अवमने त्विह लोक एव कष्टमाह- कोह... इति - क्रोधः प्रीतिं प्रणाशयति, क्रोधान्धस्य वचनतः प्रीतेर्विच्छेददर्शनात्, मानो विनयनाशनः, गर्वेण विनयकरणस्यादर्शनात्, माया मित्राणि नाशयति, कौटिल्यवतो मित्रत्यागदर्शनात्, लोभः सर्वविनाशनः, परमार्थतस्त्रयाणामपि प्रीत्यादीनां नाशदर्शनात्. ।।८.३७।।
(सु.) अवमनेत्विह लोक एवापायमाह - कोहो ' इति, क्रोधः- प्रीतिं प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवर्त्तिनस्त्याग-दर्शनात्, लोभः सर्वविनाशनः, तत्त्वतस्त्रयाणामपि तद्भावभावित्यादिति ।।८.३७।।
उवसमेण हणे कोहं, माणं मद्दवया जिणे ।
मायं चज्जवभावेण, लोभं संतुट्ठिए जिणे ।।८.३८ ।।
( ति.) स्पष्टौ ( स्पष्टः) ।।८.३८ ।।
(स.) यत एवं ? - ततः किं कर्तव्यम् ? - इत्याह-उवसमेण इति साधुः क्रोधमुपशमेन क्षान्तिरूपेण हन्यात्, कथम् ? उदयनिरोधोदय-प्राप्ताफलीकरणेन, एवं मानं मार्दवेनानुत्सिक्ततया जयेत्, उदय-निरोधादिनैव, मायां च ऋजुभावेनाशठतया जयेदुदयनिरोधादिनैव एवं लोभं सन्तोषतो निस्पृहत्वेन जयेत्, तदुदयनिरोधोदयप्राप्ताफलीकरणेनेति ।।८.३८ ।।
१. चूर्णिसम्मतोऽयं पाठः । 'मायं मज्ज... लोभं संतोसओ' पाठः हा. टी. - स. टी मध्येऽपि सम्मतः ।।
·