________________
अष्टमम् अध्ययनम्
२६९
(सु.) यत एवम् ? अतः 'उवसमेणं' इति, उपशमेन - क्षान्तिरूपेण हन्यात् क्रोधं, उदयनिरोधोदय- प्राप्ताफलीकरणेन, एवं मानं मार्दवेन - अनुत्सृ (च्छ्रि) ततया जयेत्, उदयनिरोधादिनैव, मायां चार्ज्जवभावेनाशठतया जयेदुदयनिरोधादिनैव, एवं लोभं सन्तोषतः निःस्पृहत्वेन जयेत् तदुदयनिरोधोदयप्राप्ताफलीकरणेनेति ।।८.३८ । ।
-
कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्ढमाणा | चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणो भवस्स ।।८.३९।।
(ति.) क्रोधादिभ्यः परलोकापायमाह - स्पष्टम् । नवरम् । कसिणो- कृत्स्नाः कृष्णा वा । भवस्य भवद्रुमस्य ।।८.३९ ।।
(स.) क्रोधादीनामेव परलोके कष्टमाह- कोह इति एते कषायाश्चत्वारोऽपि पुनर्भवस्य पुनर्जन्मवृक्षस्य मूलानि तथाविधकर्मरूपाणि सिञ्चन्ति अशुभभावजलेनेति शेषः, किम्भूताः कषायाः ? कृत्स्नाः सम्पूर्णाः कृष्णा वा क्लिष्टाः, के कषायाः ? क्रोधश्च, मानश्च, एतौ द्वावनिगृहीतौ उच्छृङ्खलौ, माया च लोभश्च एता द्वौ विवर्धमानौ वृद्धिं गच्छन्तौ सन्तौ ।।८.३९।।
(सु.) क्रोधादीनामेव परलोकापायमाह - कोह' इति, क्रोधश्च मानश्चानिगृहीतौउच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ-वृद्धिं गच्छन्तौ चत्वार एते क्रोधादयः कृत्स्नाः-सम्पूर्णाः, कृष्णा वा क्लिष्टाः कषायाः सिञ्चन्त्यशुभभावजलेन मूलानि तथाविधकर्म्मरूपाणि पुनर्भवस्य - पुनर्जन्मतरोरिति ।।८.३९।।
रायणि विणयं परंजे, धुवसीलयं सययं न हावइज्जा । कुम्मु व्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि ।।८.४० ।।
( ति . ) यत एवं ? - अतः कषायनिग्रहार्थमिदमाह - रत्नाधिकेषु - चिरदीक्षितेषु । विनयम्-अभ्युत्थानादिरूपं प्रयुञ्जीत । ध्रुवशीलताम्-अष्टादशशीलाङ्गसहस्रपालनरूपाम् । सततम् - यथाशक्त्या । न हापयेत् । कूर्म इव । आ-ईषत् लयनं आलीनम् । प्रकर्षेण लयनं प्रलीनम् । ताभ्यां गुप्तः - अङ्गोपाङ्गानि सम्यक् संयम्य स्थितः । पराक्रामेत् । तपःप्रधाने संयमे इति ।।८.४० ।।
१. 'पुणब्भवस्स' इत्यन्यत्र मुद्रितः ।।
"