________________
२६७
अष्टमम् अध्ययनम्
जरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न हायंति, ताव धम्म समायरे ||८.३५।।
(ति.) स्पष्टः ||८.३५।। तथा - बलं थाम च पेहाए, सद् धामारुग्गमप्पणो। स्थितं कालं च विन्नाय, तहऽप्पाणं निजुंजए ।।८.३५।। (ति) न विवृता.
(स.) उपदेशाधिकारे प्रक्रान्त इदमेव समर्थयन्नाह-बलमिति-साधुरात्मानं नियोजयेत्, किं कृत्वा ? बलं मानसं स्थाम शारीरं प्रेक्ष्य विचार्य, पुनः श्रद्वामारोग्यमात्मनः पुनः क्षेत्रं कालं च विज्ञाय. साधुस्तावन्तं कालं धर्मं चारित्रधर्मं समाचरेत्, तावन्तं कियन्तं कालमित्याह-यावज्जरा वयोहानिरूपा न पीडयति, पुनर्यावद्व्याधिः क्रियासामर्थ्यशत्रुर्न वर्धते, पुनर्यावदिन्द्रियाणि क्रियासामर्थ्यस्योपकारीणि श्रोत्रादीनि न हीयन्ते, तावत्, अत्रान्तरे प्रस्ताव इति कृत्वा धर्मं समाचरेत्. ।।८.३५।।।
(सु.) बलं थाम ति, (बलं-शारीरिकं स्थाम-हस्तादिविशेषोत्थं पेहाए प्रेक्ष्य श्रद्धामारोग्यं आत्मनः, क्षेत्रं "चिक्खल्लपाणथंडिल्ले" त्यादि १३ गुणोपेतं विज्ञायात्मनः (कालं-यौवनादिवयोरूपं) नियोजयेद्धर्मे ।।८.३५।। 'धलं' इति गाथा बृहल्लघुवृत्त्योरव्याख्याता अन्यकृतेति) उपदेशाधिकारे प्रक्रान्ते इदमेव समर्थयन्नाह-जरा इति, जरावयोहानिलक्षणा यावन्न पीडयति, व्याधिः-क्रियासामर्थ्यशत्रुर्यावन्न वर्द्धते, यावदिन्द्रियाणिक्रियासामर्थ्यो-पकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेच्चारित्र-धर्ममिति ।।८.३५।।
कोहं माणं च मायं च, लोभं च पाववड्डणं । वमे चत्तारि दोसाउ, इच्छंतो हियमप्पणो ||८.३६ ।।
(ति.) स्पष्टः । नवरम् । वमेत्-त्यजेत् । चतुरोऽपि दोषान्-दोषकारिणः कषायान् ।।
१. गाथेयं समयसुन्दरगणिना विवृता क्रमभङ्गश्चात्र । सुमतिसाधुना च विवृता यथाक्रमम् ।