________________
२६६
दशवैकालिकं-टीकात्रिकयुतम्
अमोहं वयणं कुज्जा, आयरियस्स महप्पणो ।
तं परिगिज्ज वायाए, कम्मुणा उववायए ।।८.३३ । ।
(ति.) अमोघम्-अवन्ध्यम् । वचनं कुर्यात् । आचार्याणां महात्मनाम् श्रुतादिभिर्गुणैस्तद्वचनम् अभिगृह्य वाचाभ्युपगम्य । कर्मणा क्रियया । उपपादयेत्-सम्पादयेत् ।।८.३३ ।।
(स.) पुनराह - अमोहं' इति - साधुराचार्याणां वचनम् इदं कुर्वित्यादिरूपम् ' अमोघं सफलं कुर्यात्, एवमित्यङ्गीकारेण, किम्भूतानामाचार्याणां ? महात्मनां श्रुतादिभिर्गुणैस्तद्वचनं परिगृह्य वाचा एवम् इत्यङ्गीकारेण, कर्मणा उपपादयेत् क्रियया सम्पादयेत्. ।।८.३३ ।।
(सु.) अमोहं‘इति, अमोघं -अवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कुर्यादि(मि)त्येवमित्यभ्युपगमेन, केषामित्याह - आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत् क्रियया सम्पादयेदिति ।।८.३३।।
अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया ।
विणियट्टिज्ज भोगेसु, आउं परिमियमप्पणो ।।८.३४ । ।
(ति.) तथा - अध्रुवं जीवितं ज्ञात्वा । सिद्धिमार्गं सम्यग्ज्ञान-दर्शन- चारित्ररूपम् । तथा आयुः परिमितम्-वर्षशतान्तर्गतम् । आत्मनो विज्ञाय । भोगेभ्यः - कर्मबन्धहेतुभ्यः निवर्तेत् ।।८.३४।।
(स.) पुनराह—अधुवं इति - साधुर्भोगेभ्यः कर्मबन्धस्य हेतुभ्यो निवर्त्तेत, किं कृत्वा ? जीवितमध्रुवमनित्यं मरणासन्नं ज्ञात्वा पुनः किं कृत्वा ? सिद्धिमार्गं सम्यग्दर्शनचारित्र-लक्षणं विज्ञाय, तथा अध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो निवर्त्तेत भोगेभ्य इत्यर्थः. ।।८.३४।।
(सु.) अधुवं इति, अध्रुवं - अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा, तथा सिद्धिमार्गं-सम्यग्ज्ञानदर्शनचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथाऽध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्त्तेत भोगेभ्य इति ।।८.३४ ।।
१. वर्षशतान्तम् ६-१०.१२. अयं मूलपाठः १० टिप्पण्यामपि ।।