________________
अष्टमम् अध्ययनम्
___२६५ आधाकर्मिकं पदम्-कथञ्चिद् रागद्वेषाभ्यां मूलोत्तरगुणविराधनम् । संवृणुयात्-निवर्तयेत्। क्षिप्रमात्मानम्-आलोचनादिना । द्वितीयम्-द्वितीयवारम् । पुनः तं न समाचरेत् ||८.३१।।
(स.) अथ ओघतः आभोगा-ऽनाभोगसेवितमर्थमाह-स इति-साधुर्जानन्, अजानन् वा आभोगतोऽनाभोगतश्चेत्यर्थः आत्मानं क्षिप्रं भावतो निवृत्त्यालोचनादिना प्रकारेण संवरेत्, किं कृत्वा ? अधार्मिकं पदं कथञ्चिद् रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः, परं न पुनर्द्वितीयं तत् समाचरेदनुबन्धदोषात्. ||८.३१।। __ (सु.) ओघत आभोगाना-ऽऽभोगसेवितार्थमाह-से इति, स-साधुः जानन्नजानन् वा-आभोगतोऽनाभोगतश्चेत्यर्थः, कृत्वा आ(अ)धार्मिकं पदं कथञ्चिद् रागद्वेषाभ्यां मूलोत्तरगुणविराधनमिति भावः, संवरेत् क्षिप्रमात्मानं भावतो निवृत्या(निवर्त्या)लोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेदनुबन्धदोषादिति ।।८.३१।।
अणायारं परक्कम्म, नेव गहे न निन्हवे । सूई सया वियडभावे, असंसत्ते जियंदिए ।।८.३२।।
(ति.) एतदेवाह-अनाचारम्-सावधव्यापारम् । पराक्रम्य-आसेव्य, गुरुपार्श्वे आलोचयन्,-न निगृहेत्, न निन्हुयात्-तत्र गूहनं-क्वचित् कथनं, निन्हवः-एकान्तापलापः । किंविशिष्टः ? शुचिः-अकलुषमतिः । सदा विकटभावः-प्रकटभावः । असंसक्तःगृहस्थसंसक्तिरहितः । जितेन्द्रियः ।।८.३२।।
(स.) पुनरेतदेवाह-अणायारं इति-साधुरनाचारं सपापयोगं पराक्रम्या-ऽऽसेव्य गुरुसमीप आलोचयन्, न निगृहेत्-न निह्नवीतेति, तत्र निगृहनं किञ्चित् कथनं, निह्नवः सर्वथापलापः, किम्भूतः साधुः ? शुचिः, न कलुषमतिः, सदा विकटभावः, प्रकटभावः ।, पुनः साधुः असंसक्तः अप्रतिबद्धः कुत्रापि, किम्भूतः पुनः साधुः ? जितेन्द्रियोऽप्रमादः सन्. ।।८.३२।।।
(सु.) एतदेवाह-अणायारं इति, अनाचारं-सावद्ययोगं पराक्रम्य-आसेव्य गुरुसकाशे आलोचयन्न निगृहेत-न निह्नवीत, तत्र गूहनं-किञ्चित् कथनं, निह्नव-एकान्तापलापः, किंविशिष्टः सन्नित्याह-शुचिः-अकलुषमतिः, सदा विकटभावः-प्रकटभावः, असंसक्तःअप्रतिबद्धः क्वचिज्जितेन्द्रियो-जितेन्द्रियप्रमादः सन्निति ।।८.३२।।