________________
दशवैकालिकं-टीकात्रिकयुतम्
(सु.) दिवाप्यलभ्यमानेऽप्याहारे किं ? - इत्याह- अतिंतिण... इति, अतिन्तिनो भवेत्, अतिन्तिनो नामालाभेऽपि नेषद् यत्किञ्चनभाषी, तथा अचपलो भवेत् सर्वत्र स्थिर इत्यर्थः, तथा अल्पभाषी- कारणे परिमितवक्ता, तथा मिताशनः - मितभोक्ता भवेदित्येवंभूतो भवेत्, तथोदरे दान्तो-येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिंसयेत्-देयं दातारं वा न हेलयेदिति ।।८.२९ ।।
२६४
न बाहिरं परिभवे, अत्ताणं न समुक्कसे ।
सुय-लाभे न मज्जिज्जा, जच्चा तवसि बुद्धिए ।।८.३० ।।
(ति.) मदवर्ज्जनार्थमाह-न बाह्यम् - आत्मनोऽन्यं परिभवेत् । आत्मानं न समुत्कर्षेत । श्रुत-लाभाभ्यां न मद्येत् श्रुतवानहं लाभवानहमिति । जात्या - जातिसम्पन्नोऽहम् । तपसि तपोविषये तपस्यहम् । बुद्ध्या - बुद्धिमानहम् । उपलक्षणं चैतत् कुल-बलरूपाणां, ततश्चाष्टविधेनापि मदेन न माद्येत् ।।८.३० ।।
(स.) मदवर्ज्जनार्थमाह-न इति, न बाह्यमात्मनोऽन्यं परिभवेत्, सामान्येनेत्थम्भूतोऽहमिति तथा श्रुतलाभाभ्यां श्रुतेन श्रुतज्ञानेन लाभेनाहारादिप्राप्त्या न माद्येत‘पण्डितोऽहं लब्धिमानहमिति तथा जात्या तापस्येन बुद्ध्या वा न माद्येत, यथा अहं जातिसम्पन्नः, अहं तपस्वी, अहं बुद्धिमानित्येवम्, उपलक्षणं चैतत् कुल-बल-रूपाणां, यथा-कुलसम्पन्नोऽहं रूपसम्पन्नोऽहमित्येवं न माद्येतेत्यर्थः ।।८.३० ।।
(सु.) मदवर्ज्जनार्थमाह-न बाहिरं इति, न बाह्यमात्मनोऽन्यं परिभवेत्, तथाऽऽत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुत-लाभाभ्यां न माद्येत, पण्डितो लब्धिमानहं इत्येवं तथा जात्या तपस्त्वेन बुद्ध्या वा न माद्येतेति वर्त्तते, जातिसम्पन्नः तपस्वी बुद्धिमान् अहमित्येवं, उपलक्षणं चैतत् कुल-बल- रूपाणां, कुलसम्पन्नो बलसम्पन्नोऽहं, रूपसम्पन्नोऽहमित्येवं न माद्येदिति ।।८.३० ।।
से जाणमजाणं वा, कट्टु आहम्मियं पयं ।
संवरे खिप्पमप्पाणं, बिंइयं तं न समायरे ।। ८.३१ ।।
(ति.) आभोगानाभोगसेवितार्थमाह - स- साधुः । जानन्, अजानन् वा । कृत्वा
१. 'तवस्सि 'बुद्धी इति अन्यत्र मुद्रितः, वृत्तौ च तत्र 'तापस्येन तपस्त्वेन' इति ताद्वितोऽर्थः २. बीअं इति मुद्रितपाठभेदः ।।