________________
अष्टमम् अध्ययनम्
२६३ सर्वमेव अव्यथितोऽदीनमनाः सन्, देहे दुःखं महाफलं संचिन्त्येति वाक्यशेषः, तथा च शरीरे सत्येतदुःखं, शरीरं चाऽसारं, सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति ।।८.२७।।
अत्थंगयम्मि आइच्चे, पुरत्था य अणुग्गए । आहारमइयं सव्वं, मणसा वि न पत्थए |८.२८।। (ति.) अपि च-[अत्थं...इति] स्पष्टः | नवरम् । आहारमइयम्-आहारात्मकम् ||८.२८।।
(स.) अत्थं...इति-पुनः किञ्च साधुराहारात्मकं सर्वमाहारजातं समस्तमेवं सति मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति, एवं सतीति किम् ? आदित्ये सूर्येऽस्तंगतेऽस्तपर्वतं प्राप्तेऽदर्शनीभूते वा पुरस्ताच्चानुद्गते प्रत्यूषस्यनुदित इत्यर्थः. ||८.२८ ।।
(सु.) किञ्च-अत्थं इति, अस्तं गते आदित्ये-अस्तपर्खतं प्राप्ते अदर्शनीभूते वा, पुरस्तात् चानुद्गते-प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सक्-निरवशेषमाहारजातं मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति ।।८.२८ ।।
अतितिणे अचवले, अप्पभासी मियासणे | भविज्ज उयरे दंते, थोवं लद्धं न खिसए ।।८.२९।।
(ति.) अलभ्यमाने आहारे किं वाच्यम् ? इत्याह-अतिन्तिण:-अलाभेऽपि न यत्किञ्चनभाषी । अच[प]लः | अल्पभाषी-कारणेऽपि मितभाषी । मिताशनः-अल्पभोजी भवेत् । उदरे दान्तः-दान्तोदरः, येन तेन वा आहारेण निवृत्तः । स्तोकं लब्ध्वा 'न खिसए-'देयं दातारं वा न हीलयेत् ।।८.२९ ।।
(स.) दिवा लभ्यमानेऽप्याहारे किमित्याह-अतिं...इति-साधुः-अतिन्तिणो भवेत्, अतिन्तिणो नाम अलाभेऽपि न यत् किञ्चनभाषी, तथा साधुः-अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः, तथा अल्पभाषी भवेत् कारणे परिमितवक्ता, तथा मिताशनो भवेत्, मितभोजी स्यात्, तथा उदरे दान्तः, येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेद् देयं दातारं वा न हीलयेत्. ।।८.२९ ।।