________________
२६२
दशवैकालिकं-टीकात्रिकयुतम् कायेन अधिसहेत । तत्र द्वेषं न कुर्यात् । इत्याद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु तन्निषेधो ज्ञेयः ||८.२६ ।।
(स.) कन्न...इति-पुनः किञ्च साधुः शब्देषु वेणु-वीणासम्बन्धिषु न प्रेमाभिनिवेशयेत्, न तेषु रागं कुर्यादित्यर्थः, किंभूतेषु शब्देषु ? कर्णयोः सौख्यहेतुषु, पुनः किं कुर्यात् साधुः? स्पर्शं प्राप्तं सन्तं कायेनातिसहेत, न तत्र द्वेषं कुर्यात्, किंभूतं स्पर्श ? दारुणं रौद्रमनिष्टमित्यर्थः, पुनः किंभूतं स्पर्शं ? कर्कशं कठिनम्, अनेनाद्यन्तयोर्द्वयोर्निवारणेन सर्वेन्द्रियविषयेषु रागद्वेष-प्रतिषेधो वक्तव्यः ।।८.२६ ।।
(सु.) तथा-कन्न...इति, कर्णसौख्यहेतवः-कर्णसौख्याः शब्दा-वेणुवीणादिसम्बन्धिनः तेषु प्रेम-रागं नाभिनिवेशयेत्-न कुर्यादित्यर्थः, तथा दारुणमनिष्टं कर्कशं-कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत्, न तत्र द्वेषं कुर्यात्, इत्यनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु राग-द्वेषप्रतिषेधो वेदितव्य इति ।।८.२६ ।।
खुहं पिवासं दुस्सिज्जं, सीउण्हं अरइं भयं । अहियासए अव्वहिओ, देहे 'दुःक्खं महाफलं ||८.२७।। (ति.) किञ्च-क्षुधं पिपासां दुःशय्याम्-विषमभूम्यादिरूपाम् । शीतोष्णम् । अरतिम्-मोहनीयोद्भवाम् । भयम्-इत्यादिकम् । देहे दुःखम् अव्यथितः-व्यथामगणयन्नधिसहेत। इदं सोढं सन् महाफलम्-मोक्षसाधकमित्यर्थः ।।८.२७ ।।
(स.) खुहं'इति-किञ्च संसारे तत् सर्वमधिसहेत, तत् किम् ?-इत्याह-क्षुधं बुभुक्षां, पिपासां तृषं, दुःशय्यां विषमभूम्यादिरूपां, शीतोष्णं प्रसिद्धम्, अरतिं मोहनीयकर्मोद्भवां, भयं व्याघ्रादिसमुद्भवं, किंभूतः साधुः ? अव्यथितोऽदीनमनाः सन् 'देहदुःखं महाफलं' सञ्चिन्त्येति शेषः, तथा च शरीरे सत्येतद दुःखं, शरीरं वा सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति. ।।८.२७ ।।
(सु.) किञ्च-खुहं'इति, क्षुधं-बुभुक्षां, पिपासां-तृषं, दुःशय्यां-विषमभूम्यादिरूपां, शीतोष्णं प्रतीतं, अरर्ति-मोहनीयोद्भवां, भयं-व्याघ्रादिसमुत्थम्, अतिसहेत्, एतत्
१. 'देहदुक्खं' इत्यन्यत्र । २. अधिसहेत् इति पाठः टीकान्तरेषु ।।