________________
अष्टमम् अध्ययनम्
२६१ न गच्छेत् । श्रुत्वा जिनशासनम्-क्रोधविपाकप्रतिपादकं वीतरागवचः | जहा ठाणाङ्गेचउहिं ठाणेहि जीवा आसुरत्ताए कम्मं पगरंति, तं जहा-'कोहसीलयाए, पाहुडसीलयाए, संसत्ततवोकम्मेणं, निमित्ताजीवणयाए जाव जन्नं मए एस पुरिसे अन्नाणी मिच्छद्दिट्ठी अक्कोसइ हणइ वा तं न मे एस किंचि अवरज्झइ त्ति किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरज्झंति सम्ममहियासमाणस्स निज्जरा एवं भविस्सइ त्ति ||८.२५।।
(स.) लूहवित्ती'इति-किंभूतः साधुः ? आसुरत्वं च क्रोधभावं न गच्छेत्, किं कृत्वा? जिनशासनं श्रुत्वा, क्वचित् स्वपक्षादौ क्रोधविपाकप्रतिपादकं वीतरागवचनमाकर्ण्य, किंभूतः साधुः ? रूक्षवृत्तिः, रूक्षैर्वल्ल-चणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, पुनः किंभूतः साधुः ? सुसन्तुष्टः, येन केन सन्तोषगामी, पुनः किंभूतः साधुः ? अल्पेच्छः, न्यूनोदरतया आहारपरित्यागी सुभरः स्यादल्पेच्छत्वात्, एवं दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादिति. ।।८.२५।।
(सु.) किञ्च-लूह...इति, रूक्षैः-वल्ल-चनकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, सुसन्तुष्टो येन वा तेन वा सन्तोषगामी, अल्पेच्छो न्यूनोदरतया आहारपरित्यागी, सुभरः स्यादल्पेच्छत्वादेव दुर्भिक्षादाविति फलं, प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि, तथा आसुरत्वं-क्रोधभावं न गच्छेत्, क्वचित् स्वपक्षादौ श्रुत्वा जिनशासनंक्रोधविपाकप्रतिपादकं वीतरागवचनं-जहा-"चउहिं ठाणेहिं जीवा आसुरत्ताए कम्म पकरिंति, तंजहा-कोहसीलयाए पाहुडसीलयाए, जहा ठाणे जाव जं णं मए एस पुरिसे अण्णाणी मिच्छादिट्ठी अक्कोसइ हणइ वा, तं ण मे एस किंचि अवरज्झइ त्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरज्झंति त्ति सम्ममहियासमाणस्स निज्जरा एव भविस्सइ" त्ति ।।८.२५।।
कन्नसुक्खेहिं सद्देहि, पिम्मं नाभिनिवेसए । दारुणं कक्कसं फासं, काएण अहियासए ।।८.२६ ।।
(ति.) तथा-कर्णसौख्येषु-कर्णसौख्यकारिषु । शब्देषु वेणु-वीणादिसम्बन्धिषु । प्रेम रागं नाभिनिवेशयेत्-न कुर्यात् । दारुणम्-अनिष्टम् । कर्कशम्-कठिनम् । स्पर्श
१. कलहशीलनया ३ टि. ||