________________
दशवैकालिकं-टीकात्रिकयुतम्
२६०
धनसमृद्धानां गृहे मुखमङ्गलिकया न चरेत्, अपि तु उञ्छं भावतो ज्ञाताज्ञातमजल्पनशीलः सन् धर्मलाभमात्रकथकः सन् चरेत्, तत्राप्यप्रासुकं सचित्तं सन्मिश्रादिकं कथञ्चिद् गृहीतमपि न भुञ्जीत, अथवा क्रीतमौदेशिकमाहृतं प्रासुकमपि न भुञ्जीत ।।८.२३ ।।
(सु.) किञ्च - न यं इति, न च भोजने गृद्धः सन् विशिष्टवस्तु-लाभायेश्वरादिषु कुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो-ज्ञाताज्ञातम्, अजल्पनशीलो धर्मलाभमात्रा-भिधायी चरेत्, तत्राप्यप्रासुकं - सचित्तं सन् मिश्रादि कथंचिद् गृहीतमपि न भुञ्जीत, तथा क्रीतमौ द्देशिकाहृतं प्रासुकमपि न भुञ्जीत, एतद् विशोध्यविशोधिकोट्युपलक्षणमिति ।।८.२३ । ।
संनिहिं च न कुव्विज्जा, अणुमायं पि संजए । मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए ।।८.२४।।
(ति) सन्निधिं च न कुर्वीत अणुमात्रमपि संयतः मुधाजीवी । असम्बद्धः । गृहस्थैः पद्मिनीपत्रवदुदकेन भवेत् । जगद्भ्यो निसृत इव जगन्निःसृतः - जगत्सु स्वर्गमर्त्यपातालरूपेषु निराकाङ्क्षत्वात् सिद्धिसुखाभिलाषुक इत्यर्थः ।। ८.२४ ।।
(स.) पुनः किञ्च - संनिहिं च... इति - संयतः साधुः सन्निधिं च प्रानिरूपितस्वरूपं न कुर्यादणुमात्रमपि स्तोकमात्रमपि किम्भूतः संयतः ? मुधाजीवी, अर्थः पूर्ववत्. पुनः किम्भूतः संयतः ? असम्बद्धो गृहस्थैर्नलिनीपत्रोदकवत्, एवंभूतः सन् भवेज्जगन्निश्रितश्चराचरसंरक्षणप्रतिबद्धः ।।८.२४ ।।
·
(सु.) संनिहिं च'इति, सन्निधिं च प्रानिरूपितस्वरूपं न कुर्यादणुमात्रमपि - स्तोकमात्रमपि, संयतः-साधुः, तथा मुधाजीवी' इति पूर्ववत्, असम्बद्धः पद्मिनीपत्रोदकवद् गृहस्थैः, एवंभूतः सन् भवेत्, जगन्निश्रितश्चराचर - संरक्षणप्रतिबद्ध इति ।।८.२४।।
लूहवित्ती सुसंतुट्टे, अप्पिच्छे सुभरे सिया ।
आसुरतं न गच्छिज्जा, सुच्चा णं जिणसासणं ।।८.२५ ।।
(ति.) किञ्च - रूक्षैर्वल्ल - चणकैर्वृत्तिर्यस्य स रूक्षवृत्तिः । सुसन्तुष्टो येन तेन वा सुसन्तोषी। अल्पेच्छः-अल्पाहारः । दुर्भिक्षादावपि सुभरः स्यात् । आसुरत्तं-क्रोधभावं