________________
अष्टमम् अध्ययनम्
२५९ लपेन्न भाषेत, औपघातिकं-उपघातेन निर्वृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादि; अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्ग्या गृहियोगंगृहिसम्बन्धं तद्बालग्रहणादिरूपं गृहिव्यापारं वा-प्रा(आ)रंभरूपं समाचरेत्-कुर्यादिति ||८.२१।।
निट्ठाणं रसनिज्जूढं, भद्दगं पावगं ति वा । पुट्ठो वा वि अपुट्ठो वा, लाभालाभं न निद्दिसे ||८.२२।।
(ति.) निष्ठानम-सर्वगुणोपेतं प्रभूतमन्नम् । रसनिर्मूढम्-तद्विपरीतं कदशनम् । आद्यं भद्रकं । द्वितीयं पापकं । पृष्टो वापि परेण 'कीदृग् लब्धम् इति अपृष्टो वा स्वयमेव साधुः भद्रकादेर्लाभालाभं न निर्दिशेत् ।।८.२२।।
(स.) निट्ठाणं'इति-पुनः किञ्च साधुनिष्ठानादेर्लाभमलाभं च न निर्दिशेत्, किमाश्रित्य ? निष्ठानं सर्वगुणैः सहितं रसनिर्मूढमेतत्, विपरीतं कदशनमेतद्-आश्रित्याचं भद्रकं द्वितीयं पापकमिति वा, किम्भूतः साधुः ? पृष्टः केनापि कीदृग् ? लब्धमिति पृष्टो न निर्दिशेत्, अद्य साधु लब्धमसाधु वा कथं शोभनमिदमशोभनं वेदं नगरम्. ||८.२२।।
(सु.) किञ्च-निट्ठाणं'इति, निष्ठानं-सर्वगुणोपेतं संभृतमन्नं रसनिर्मूढम्, एतद्विपरीतं कदशनं, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग् लब्धमित्यपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेर्न निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदं अपरमशोभनं वेति ।।८.२२ ।।
न य भोयणंमि गिद्धो, चरे उच्छं अयंपिरो । अफासुयं न भुंजिज्जा, कीयमुद्देसियाहडं ||८.२३।। (ति.) किञ्च-न च भोजने गृद्धः विशिष्टवस्तुलाभायेश्वरादिकुलेषु चरेत् । अपि तु उञ्छन् । अज्ञातकुलेषु स्तोकस्तोकं प्राणवृत्त्यर्थं गृह्णन् । अजल्पनशीलः-धर्मलाभमात्राभिधायी चरेत् । अप्रासुकम्-सचित्तं सचित्तमिश्रं वा कथञ्चिद् गृहीतमपि न भुञ्जीत। क्रीतमौद्देशिकाहृतं च ||८.२३।। ___(स.) पुनः किञ्च-न...इति-साधु जने गृद्धः सन् प्रधानवस्तुप्राप्तिनिमित्तं