________________
२५८
दशवैकालिकं-टीकात्रिकयुतम् (स.) अथ गोचरादिगत एव साधुः केनचित् तथाविधं पृष्टः किं ? ब्रूयादित्याह, अथवा साधुरुपदेशस्याधिकारे सामान्येनैवमाह-बहु'इति-बह्वनेकप्रकारं शोभनमशोभनं चा साधुः श्रुणोति कर्णाभ्यां शब्दसमूहमिति शेषः, तथा बबनेकप्रकारमेव शोभनमशोभनं चाक्षिभ्यां पश्यति, रूपसमूहमिति शेषः, परं न च दृष्टं श्रुतं सर्वं स्वस्य परस्योभयस्य चाहितमपि तव पत्नी रुदति, इत्येवमादिकं भिक्षुराख्यातुं कथयितुं नार्हति चारित्रस्य घातात्, अर्हति च स्वपरोभयहितं 'दृष्टस्ते शिष्यो राजानमुपशामयन्, एतादृशं तु वचनं कथयेत्'. ||८.२०।।
(सु.) गोचरादिगत एव केनचित् तथाविधं पृष्टः एवं ब्रूयात्-इत्याह-बहु'इति, अथवोपदेशाधिकार एव सामान्येनाह-बहु'इति, बहु-अनेकप्रकारं शोभनाशोभनं श्रुणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा बहु-अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं-न च दृष्टं श्रुतं सर्वं स्व-परोभयाहितमपि 'श्रुता ते पत्नी रुदति इत्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातित्वात्, अर्हति च स्वपरोभयहितं दृष्टि(दृष्ट)स्ते राजानमुपशामयन् शिष्य इत्येवमादीति ।।८.२० ।।
सुयं वा जइ वा दिहूँ, न लविज्जोवघाइयं । न य केण उपायेणं, गिहिजोगं समायरे ||८.२१।।
(ति.) एतदेव स्पष्टयन्नाह-श्रुतं वा अन्यतः, यदि वा दृष्टं स्वयमेव न लपेत् । उपघातेन निर्वृतं औपघातिकम् "चौरोऽयमित्यादि" | न च केनाप्युपायेन परोपरोधादिना स्वयं वा तदावर्जनार्थम् । गृहियोगम्-गृहिव्यापारं बालक्रीडनादिकं गृहरक्षादिकं वा साधुः समाचरेत् ।।८.२१।।
(स.) पुनरेतदेव स्पष्टयन्नाह-सुअं...इति-साधुः श्रुतं वान्यतो यदि वा दृष्टं वा स्वयमेव वा एतादृशं वचनं नालपेन्न भाषेत. कीदृशं वचनं ?-औपघातिकमुपघातेन निर्वृत्तं, तत्फलं वा औपघातिकं यथा 'त्वं चौर' इत्यादि, अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्ग्या गृहियोगं गृहसम्बन्धं तद्बालग्रहणादिरूपं गृहिव्यापारं प्रारम्भरूपं समाचरेत् कुर्यान्न चेति. ||८.२१।।
(सु.) एतदेव स्पष्टयन्नाह-सुयं इति, श्रुतं वा अन्यतो यदि वा दृष्टं स्वयमेव न