________________
अष्टमम् अध्ययनम्
२५७ इत्याह-उच्चारं प्रस्रवणं श्लेष्म सिंहाण-जल्लं च, एतानि सर्वाणि प्रसिद्धानि. इत्युपाश्रयस्थानविधिरुक्तः. ।।८.१८ ।।
(सु.) तथा उच्चारं'इति, उच्चारं प्रश्रवणं श्लेष्म सिंघानं जल्लमिति प्रतीतानि. एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, परिष्ठापयेदुत्सृजेत् संयत इति, उपाश्रयस्थानविधिरुक्तः, ||८.१८ ।।
पविसिज्ज परागारं, पाणट्ठा भोयणस्स वा । जयं चिट्टे मियं भासे, न य रूवेसु मणं करे ||८.१९।।
(ति.) उपाश्रयस्थानविधिरुक्तः गोचरप्रवेशमधिकृत्याह-पविसिज्ज इति पूर्वार्द्धं सुगमम् । तिष्ठेत्-उचितदेशे । मितं भाषेत-आगमनकार्यादि | न च रूपेषु-दातृकान्तादिष । मनः कुर्यात् ।।८.१९।।
(स.) अथ गोचरप्रवेशमधिकृत्याह-पवि० इति-साधुर्यतं यतनया गवाक्षादि विलोकनेन विना उचितदेशे तिष्ठेत्, किं कृत्वा ? परस्य गृहस्थस्यागारं गृहं, पानार्थं भोजनस्य वा ग्लानादेरौषधार्थं वा प्रविश्य, पुनः साधुर्मितं यतनया भाषेतागमनप्रयोजनादि, परं न च रूपेषु दातृकान्तादिषु मनः कुर्यात्, एवंभूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणेन रसादयोपि ग्राह्याः. ।।८.१९ ।।
(सु.) गोचरप्रवेशमधिकृत्याह-पविसित्तु, प्रविश्य परागारं-परगृहं, पानार्थं भोजनस्य वा ग्लानादेः औषधार्थं वा यतं-गवाक्षाद्यनवलोकयंस्तिष्ठेदुचितदेशे, मितं यतनया भाषेतागमन-प्रयोजनादि, न रूपेषु-दातृकान्तादिषु मनः कुर्यादेवम्भूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणं रसाधुपलक्षणमिति ।।८.१९ ।।
बहुं सुणेइ कन्नेहिं, बहुं अच्छीहिं पिच्छई । न य दिलु सुयं सव्वं, भिक्खू अक्खाउमरिहइ ।।८.२०।।
(ति.) तथा बहिर्गतः साधुः केनचित् किञ्चित् पृष्टः, एवं ब्रूयात्-चारित्रोपघातसम्भवात् । बहुम्-शोभनाशोभनम् ।।८.२० ।।
१. पविसित्तु इति पाठः, मुद्रितोऽन्यत्र । तथा टीकान्तेरेषु प्रविश्य' इत्यर्थो विहितः ।।