________________
२५६
दशवैकालिकं-टीकात्रिकयुतम् धुवं च पडिलेहित्ता(ज्जा), जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसणं ।।८.१७ ।।
(ति.) तथा ध्रुवम-नित्यं यथोक्तकालम् । योगसा-सति काययोगसामर्थ्ये । पात्र-कम्बलम्-पात्रग्रहणेऽन्यत्रोपधिकम्बलग्रहणात् शेषोपधिं च प्रत्युपेक्षेत । शय्याम्वसतिं द्विकालं त्रिकालं वा । उच्चारभूमि, च चकारात् प्रश्र(स्र)वणभूमिं कालभूमिं च। सन्ध्यायां संस्तारकम् अथवा आसनं पादप्रोच्छनं काष्ठासनं वा ।।८.१७।।
(स.) पुनः साधुः किं कुर्यात् ? इत्याह-धुवं... इति-ध्रुवं च नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत, केन ? सिद्धान्तविधिना, क्व सति ? योगे सति सामर्थ्य सति, किं प्रत्युपेक्षेत इत्याह-पात्रकम्बलं, पात्रग्रहणादलाबु ! दारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णा-सूत्रमयपरिग्रहः, तथा शय्यां वसतिं द्विकालं त्रिकालमुच्चारभुवं चाऽनापातवदादि स्थण्डिलं, तथासनमपवादेन गृहीतं पीठफलकादि साधुः सर्वं यतनया प्रत्युपेक्षेतेत्यर्थः. ।।८.१७ ।।
(सु.) तथा-धुवं इति, तथा ध्रुवं च-नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिंस्तत्प्रत्युपेक्षेत सिद्धान्तविधिना, योगे सति सामर्थ्य अन्यूनातिरिक्तं, किं तदित्याह-पात्र-कम्बलं, पात्रग्रहणादलाबु-दारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां-वसतिं द्विकालं त्रिकालं च, उच्चारभुवं च-अनापातवदादि स्थंडिलं तथा संस्तारकं-तृणमयादिरूपं, अथवाऽऽसनं-अपवादगृहीतं पीठकादि प्रत्युपेक्षेतेति ।।८.१७ ।।
उच्चारं पासवणं खेलं, सिंघाणजल्लियं । फासुयं पडिलेहित्ता, परिठ्ठाविज्जा संजए ।।८.१८ ।।
(ति.) तथा-[उचारं-इति] स्पष्टः । नवरम् । फासुयं ति-प्रासुकं स्थण्डिलं प्रत्युपेक्ष्य ||८.१८।।
(स.) पुनः साधुः किं कुर्यादित्याह-उच्चारं'इति-संयतः साधुरेतानि परिष्ठापयेदुत्सृजेत्, किं कृत्वा ? प्रासुकं, स्थण्डिलमिति शेषः, प्रत्युपेक्ष्य एतानि कानि ?
१. टीकासु 'प्रत्युपेक्षेत' इत्यर्थो वर्तते, अतः पडिलेहिज्जा’ पाठोऽत्र साधुः ।। तथाऽन्यत्र पडिलेहिज्जा' इति मुद्रितः |