________________
अष्टमम् अध्ययनम्
२५५
पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, प्राणीति, प्राणिसूक्ष्ममनुद्धरिः कुन्थुः स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात्, उत्तिंगं तथैव चेति, उत्तिंगसूक्ष्मं - कीटिकानगरं तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति, तथा पनकमिति, पनकसूक्ष्मं प्रायः प्रावृट्काले भूमि-काष्ठादिषु पञ्चवर्णस्तद्द्रव्यलीनः पनक इति, तथा बीजसूक्ष्मं - शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, हरितं चेति हरितसूक्ष्मं तच्चाऽत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, अण्डसूक्ष्मं चाष्टममिति एतच्च मक्षिका - कीटिका - गृहकोकिला- ब्राह्मणीकुकलासा-ऽऽद्यण्डकमिति ।।८.१५ ।।
एवमेयाणि जाणित्ता, सव्वभावेण संजए ।
अप्पमत्तो जए निच्चं, सव्विंदियसमाहिए ।।८.१६ ।।
(ति.) एवम्-उक्तेन प्रकारेण । एतानि - सूक्ष्माणि । ज्ञात्वा । सर्वभावेन - सर्वात्मना । संयतः । अप्रमत्तः- निद्रादिप्रमादरहितः । सर्वेन्द्रियसमाधिना नित्यम् सर्वकालं मनोवाक्कायैः तद्विराधनावर्जने यतेत । सम्भवति हि प्रायेण सर्वेषामपि सूक्ष्माणां विराधना । वटोडुम्बरपुष्पाणामपि प्रत्यासन्नभावे सम्भवति परितापनादोषः ।
अत्राह परः–षड्जीवनिकायिकाध्ययने विस्तरेण, महाचारकथायां सङ्क्षेपेण षड्जीवनिकायरक्षासाधूनामुक्ता । किं पुनरत्र ? उच्यते - चारित्रस्य हि रहस्यं षड्जीवनिकायरक्षा । अतोऽत्रादरख्यापनार्थं द्विस्त्रिरुक्तेऽपि न दोषः । । ८. १६ । ।
(स.) पुनः सूत्रं - एवं... इति - साधुर्नित्यं सर्वकालं यतेत, मनो-वचन-कायेन कृत्वा जीवानां संरक्षणं प्रति, किं कृत्वा ? एवं पूर्वोक्तप्रकारेणैतान्यष्टौ सूक्ष्माणि ज्ञात्वा, केन ? सर्वभावेन सूत्रादेशेन शक्तेरनुरूपेण, किंभूतः संयतः ? संयमवान्, पुनः किंभूतः साधुः ? अप्रमत्तः प्रमादनिद्रारहितः पुनः किंभूतः साधुः ? सर्वेन्द्रियसमाहितः सर्वेषामिन्द्रियाणां विषयेषु रागद्वेषावगच्छन्. ।।८.१६ ।।
(सु.) एवमेआणि इति, एवमुक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन सर्वभावेन-शक्त्यनुरूपेण स्वरूपसंरक्षणादिना संयतः साधुः किम् ? - इत्याह- अप्रमत्तोनिद्रादिप्रमादरहितो यतेत मनो- वाक्- कायैः संरक्षणं प्रति नित्यं सर्वकालं सर्वेन्द्रिय- · समाहितः शब्दादिषु रागद्वेषौ अगच्छन्निति ।।८.१६ ।।
,