________________
दशवैकालिकं- टीकात्रिकयुतम् प्रयत्नविधिमाह—स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति तत्रैव भावप्रतिबन्धादिति, अमूनि च तान्यनन्तरवक्ष्यमाणान्याचक्षीत विचक्षण इत्यनेनाप्येतदेवाहमर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तदुपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति ।। ८.१४ । ।
२५४
(सु.) आह - कराणि इति, कतराणि तान्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत् संयतः ? अनेन दयाधिकारिण एवैवंविधेषु यत्नमाह, सह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति, अमूनि तान्यनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह - मर्यादावर्त्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति ।।८.१४।।
सिणेहं पुप्फसुहमं च, पाणुत्तिगं तहेव य ।
पणगं बीय हरियं च, अंडसुहुमं च अट्ठमं ।।८.१५ । ।
(ति.) तथाहि - स्नेहम् - स्नेहसूक्ष्मम्, अवश्याय-1 य-हिम-महिका - करक-हरतनुरूपम् । पुष्पसूक्ष्मम्-वटोडुम्बरपुष्पाणि तानि तद्वर्णानि सूक्ष्माणि 'इति न लक्ष्यन्ते । प्राणसूक्ष्मम्अनुद्धरिः कुन्थुः स हि चलन्नेव विभाव्यते, न स्थितः, सूक्ष्मत्वात् । उत्तिङ्गसूक्ष्मम्कीटकानगरादि। पनकसूक्ष्मम्-पञ्चवर्णाप्युल्लिः । बीजसूक्ष्मम् - शाल्यादिबीजस्य मुखमूले यल्लोके तुषमुख-मित्युच्यते । हरितसूक्ष्मम् - अभिनवोत्पन्नं पृथ्वीसमानवर्णमेव । अण्डसूक्ष्मम्-मक्षिका-कीटिका-गृहोलिका-ब्राह्मणी-कृकलासाद्यण्डम् ।।८.१५।।
(स.) सिणेहं...इति - स्नेहसूक्ष्ममवश्याय-हिम- मिहिका - करक - हरतनुरूपं, पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'पाणि... इति' प्राणिसूक्ष्मम् अनुद्धरिः कुन्थुः, स हि चलत् विभाव्यते, न स्थितः सूक्ष्मत्वात्, उत्तिङ्गसूक्ष्मं कीटिकानगरं तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति, तथा पनकमिति पनकसूक्ष्मं प्रायः प्रावृट्काले भूमि-काष्ठादिषु पञ्चवर्णस्तद्द्द्रव्यलीनः पनक इति, तथा बीजसूक्ष्मं शाल्यादिबीजस्य मुखमूले कणिका, या लोकेषु तुषमुखमित्युच्यते, हरितं चेति हरितसूक्ष्मं च, तथात्यन्तमभिनवमुद्भिन्नं पृथिवीसमानवर्णमेवाण्डसूक्ष्मं चाष्टममिति एतच्च मक्षिकाकीटिका-गृहकोकिला-ब्राह्मणी-कृकलासादीनामण्डमिति. ।।८.१५।।
(सु.) सिणेहं'इति, स्नेहमिति स्नेहसूक्ष्मं - अवश्याय-हिम-महिका-करक-हरतनुरूपं,