________________
१२
दशवैकालिकं-टीकात्रिकयुतम् इति ?-आह-यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयं-'न सा मम मदीया, नाप्यहं तस्याः, पृथक्कर्मभुजो हि प्राणिन' इत्येवं, ततस्तस्याः सकाशाद्व्यपनयेद् रागं, तत्त्वदर्शिनो हि संनिवर्तन्त एव ।।२.४।।
(सु.) 'समाइ पेहाइ' इति, तस्यैवं त्यागिनः समया-आत्मपरतुल्यतया प्रेक्षते अनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्तात् व्रजतो-गुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, स्यात्-कदाचिदचिन्त्यत्वात् कर्मगतेर्मनो निःसरति बहिर्धा भुक्तभोगिनः पूर्वक्रीडितस्मरणादिना, अभुक्तभोगिनश्च कुतूहलादिना, मनः-अन्तःकरणं निस्सरतिनिर्गच्छति बहिर्धा-संयमयोगाद् बहिरित्यर्थः, तदा प्रशस्ताध्यवसायेनासौ अशुभसङ्कल्पः परिस्थगनीयः, केनालम्बनेनेति ? यस्यां रागः सम्पन्नस्तां प्रति चिन्तनीयं-'न सा मम, नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन' इति, एवं ततस्तस्याः सकाशाद् व्यपनयेत रागं, तत्त्वदर्शिनो हि स निवर्तत एवेति ।। अत्रोदाहरणं (दृ० १) - __यथैको वणिक्पुत्रः सञ्जातपरमवैराग्यो, विचिन्त्य संसारासारतां, नवे वयसि वर्तमानो, विहाय यौवनश्रिया समलङ्कृतां स्त्रियं प्रव्रज्यामग्रहीत् । स च कैश्चिद्वासरैः समतिक्रान्तैः विधिना विहितसूत्रप्रणिधान इदं सूत्रमुद्घोषयामास-"न सा महं नोऽवि अहं पि तीसे" तेन च पठता समचिन्ति-यथा सा मम अहमपि तस्याः, यतोऽसावत्यन्तं ममानुरक्ता, ततः कथमहं तां प्राणात्ययेऽपि परित्यजामीति सम्प्रधार्य चेतसि, गुरूणां किंवदतीमात्मीयामनिवेद्य गृहीतपात्राद्युपकरण एव गतस्तं ग्रामं यत्रासावास्ते, प्राप्तस्य तं ग्रामं जलानयनाय बहिर्गामवाप्यामत्रान्तरे तस्यासौ प्रियतमा समायाता, विलोकितोऽसौ तया, तत्र दृष्टमात्रः प्रत्यभिज्ञातः, न च तेन सा प्रत्यभिज्ञाता, कृते च वन्दने परिपृष्टाऽसौ, यथा-भद्रे ! जानासि त्वममुकस्य वणिजः सुतां, सा च तस्मिन् प्रव्रजिते समाकर्णितधर्मा सञ्जातपरमवैराग्या संयोगानां दुःखबहुलतां परिकल्पयन्ती प्रव्रजितुकामा परिचिन्तितवती-यादृशान्यस्य चिह्नानि समवलोक्यन्ते तादृशो विषयोन्मुखमस्य चेतः समभिलक्ष्यते, ततश्च विषयासक्तयोरावयोरवश्यं भविष्यति दुर्गतिपातः, तदयमात्मा च, ततो मया परिरक्षणीय इति सम्प्रधार्य तं प्रति जगाद-भो साधो ! सा मातापितृभिरन्यस्मैं दत्ता, तत् श्रुत्वाऽसौ समचिन्तयत्, यथा-सत्यमहं भगवद्भिः साधुभिः पाठितो-"न सा महं नोऽवि अहंपि तीसे," इति परिभावयन् परमसंवेगं गतः, तां जगाद-भद्रे ! तस्याः कारणेन जन्मान्तरकोटिभिरपि दुरापं भगवतामाचार्याणां पादपद्मं विहाय