________________
द्वितीयम् अध्ययनम्
भोगान्. ततश्च य ईदृशः, हुशब्दोऽवधारणार्थे, स एव त्यागीत्युच्यते, भरतादिवत्.
।।२.३ ।।
११
(सु.) यथा चोच्यते, तथाभिधातुकाम आह- 'जे य कंते पिए' इति य एव कान्तान्-कमनीयान् शोभनानित्यर्थः, प्रियान् - इष्टान् भोगान्-शब्दादिविषयान्, लब्धान्प्राप्तान्, उपनतानितियावत्, 'विपिट्ठिकुव्वइ 'त्ति विविधं - अनेकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धेन बद्धः प्रोषितो वा, किन्तु स्वाधीनं (नः)अपरायत्तः, स्वाधीनानेव परित्यजति भोगान् पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थं, भोगग्रहणं तु सम्पूर्णभोगग्रहणार्थं त्यक्तोपनतभोगसंसूचनार्थं वा, ततश्च ईदृशः, हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवद्, इति
11211
समाए' पेहाएं परिव्वयंतो सिआ मणो निस्सरई बहिद्धा ।
-
न सा महं नो वि अहं पि तीसे, इच्चेव ताओ विणइज्ज रागं ।।२.४।।
(ति.) अथ विद्यमानभोगत्यागिनः इतरस्यापि च स्खलतः शिक्षामाह - समया प्रेक्षया-आत्मपरतुल्यया दृष्ट्या परिव्वयंतो-अत्र प्राकृतत्वात् षष्ठीस्थाने प्रथमा, परिव्रजतः संयममार्गे सञ्चरतः स्यात् कदाचित् कर्मवशात् भुक्तभोगस्य पूर्वक्रीडितस्मरणात्, इतरस्य तु कुतूहलादिना संयमगृहात् बहिद्धा - बहिस्तात् । कामकाम्यया मनो निःसरति-ततो यां प्रति रागः सञ्जातो भवति, तां प्रति चिन्तनीयम । न सा मम, अहमपि न तस्याः । स्वस्वकर्मवशात् संसारे संसरतां जन्मिनां कः कस्य सक्तः ? इत्येवं तस्याः सकाशात् रागं विनैयेत् ।।२.४।।
1
(स.) समाइ' त्ति-समया आत्मपरतुल्यया प्रेक्षया दृष्ट्या परिव्रजतः परि समन्ताद् व्रजतो गच्छतः, गुरोरुपदेशदानेन संयमयोगेषु वर्तमानस्य, एवंविधस्य त्यागिनोऽपि स्यात् कदाचिदचिन्त्यत्वात् कर्मगतेर्मनोऽन्तःकरणं निस्सरति बहिर्धावति, केन ? भुक्तभोगिनः पूर्वक्रीडितस्मरणादिना, अभुक्तभोगिनश्च कुतूहलादिना, बहिर्धा संयमगेहाद् बहिरित्यर्थः, तदा सोऽशुभोऽध्यवसायः, प्रशस्ताध्यवसायेन स्थगनीयः, केनालम्बनेन १. ०य, अन्यत्र मुद्रिते २.०ह । । ३. अत्रोदाहरणम् - [ अन्यत्र द्रष्टव्यम्] ४. लोभेनेति भावः