________________
दशवैकालिकं- टीकात्रिकयुतम्
(सु.) न केवलमयमधिकृतसूत्रोक्त एव श्रामण्याकरणाद् अश्रमणः, किन्त्वा - जीविकादिभयप्रव्रजितः सङ्क्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव अयोग्य एव, कथं ?, यत आह सूत्रकारः - 'वत्थगंधमलंकारं ' इति वस्त्रगन्धमलङ्काराणि तत्र वस्त्राणि-चीनांशुकादीनि, गन्धाः - कोष्ठपुटादयः, अलङ्काराः- कटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेक प्रकाराः, शयनानि पर्यङ्कादीनि चशब्दादासनादिपरिग्रहः, एतानि वस्त्रादीनि किं ? 'अच्छन्दाः' - अस्ववशा ये केचन 'न भुञ्जते' न सेवन्ते, किं बहुवचनोद्देशेऽप्येकवचननिर्देशः ?, विचित्रत्वात् सूत्रगतेर्विपर्ययश्च भवत्येवेतिकृत्वा आह- नासौ त्यागीत्युच्यते, सुबन्धुवत् ( दश० चू० ) नासौ श्रमण इति ।।२.२।।
१०
जे हुं कंते पिए भोए, लद्धे वि 'प्पिट्ठि कुव्वइ । साहीणे चयइ भोए, से हु चाइ त्ति वुच्चई ||२.३ ।।
(ति) यस्तु त्यागी श्रमणो भवति तमाह- -हुरेवैकारार्थे । यः साधुः, एव कान्तान्कमनीयान् । प्रियान्-इष्टान् । भोगान्-शब्दादिविषयान् लब्धान् । विविधैः- नानाप्रकारैः शुभभावनादिभिः । 'पृष्ठतः करोति - पश्चात् पातयति । स्वाधीनान्-स्वायत्तान् भोगान् । अत्र पुनर्भोगग्रहणं सम्पूर्णग्रहणार्थम् । सम्पूर्णानपि भोगान् त्यजति । स एव त्यागी-श्रमण उच्यते । भरतेश्वर - धन्य - शालिभद्र-जम्बूस्वाम्यादिवत् ।
अत्राह परः-ये केचिदर्थहीना 'द्रमकादयः परिव्रज्य भावतोऽहिंसादिगुणयुक्ते श्रामण्येऽभ्युद्यता भवन्ति । ते किं न परित्यागिनः?
·
आचार्य आह । अत्र सकललोकसाराणि त्रीणि रत्नानि - अग्नि-रुदकं स्त्री च, एतानि च प्रत्येकं कोटिरत्नमूल्यानि । द्रमकोऽपि च तानि परित्यज्य भावतो ज्ञानदर्शनचारित्राणि प्रतिपद्यमानस्त्यागी भणनीय एव ।।२.३ ।।
(स.) यथा च श्रमणो भवति तथा कथयितुमाह-जे इति य एव कान्तान् शोभनान् प्रियान् इष्टान् भोगान् शब्दादिविषयान् लब्धान् सतः, 'विपिट्ठि कुव्वइ त्ति' कोऽर्थः ? विविधमनेकप्रकारैः शुभभावनादिभिः पृष्ठतः करोति परित्यजति, न बन्धनेन बद्धः प्रोषितो वा, किन्तु स्वाधीनः, न परायत्तः, स्वाधीनानेव परित्यजति
१. प्पट्ठी ८ ।। २. ०रविकारार्थो ९ ।। ३. पृथून् ८ ।। ४. दूरीकरोति ८ टि. ।। ५. प्रथमरङ्कादयः ८ टि. ।। ६. ०ज्य च भा. ५-९ ।। ७. अत्र दृष्टान्तः [ अन्यत्र द्रष्टव्यः]