________________
द्वितीयम् अध्ययनम् भवितव्यमित्येतदुच्यते, अनेन सम्बन्धेनायातमिदमत्राध्ययनम्-'कहण्णु' इति कथं नु कुर्यात् श्रामण्यं-श्रमणभावं यः कामान् न निवारयति, 'कथं' केन प्रकारेण, नुः क्षेपे, यथा कथं नु स राजा ? यो न रक्षति प्रजां, कथं नु स वैयाकरणो योऽपशब्दं प्रयुङ्क्ते ?, एवं कथं नु कुर्यात् श्रामण्यं-श्रमणभावं यः कामान् न निवारयति ?, कारणमाह-'पदे पदे विषीदन् सङ्कल्पस्य वशङ्गतः' कामानिवारणेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात् सङ्कल्पस्य वशं गतत्वाद्, अप्रशस्ताध्यवसायः सङ्कल्प इति सूत्रसमासार्थ इति ।।२.६ ।।
वत्थगंधमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइ ति वुच्चइ ।।२.२।। (ति.) किञ्च-वस्त्रं-चीनांशुकादि । गन्धः-कर्पूरकस्तूरिकादिः । 'मकारोऽलाक्षणिकः | अलङ्कार:-कटककेयूरादिः । स्त्रियः-अनेकप्रकाराः । शयनानिपल्यकादीनि | चशब्दाद गैब्दिकादीन्यासनानि । अच्छंद त्ति अच्छन्दान्-अनात्मवशान्, अविद्यमानान् ये न भुञ्जन्ते-आजीविकामानिमित्तं गृहीतव्रताः । भोक्तुकामाः अप्यसम्पत्तितो नासेवन्ते। 'न से चाइ' त्ति वुच्चइ । प्राकृतत्वाद् बहुवचनस्थाने एकवचनम् । ततो न ते त्यागिनो, न ते श्रमणा उच्यन्ते । ये च सतो पि भोगान् भोगान्तरायवशादौषधादिभिः प्रतिहतवीर्याः, यदि भुञ्जते ततो म्रियन्ते, अतो जीवितार्थिनो भोक्तुमनसोऽपि सन्तो न भुञ्जते । साधुसामाचार्या अवतिष्ठन्ते । नन्दामात्यसुबन्धुवत्, न ते त्यागिनः श्रमणा उच्यन्ते। कः पुनः सुबन्धुरिति ।
(स.) न केवलमयमधिकृत्यसूत्रोक्तो यथोक्तश्रामण्याभावेनाश्रमणः, किन्तु आजीविकादिभावेन प्रव्रजितः सङ्क्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव. अयोग्य एव कथं ? यत आह-वच्छे(त्थे)ति-वस्त्राणि चीनांशुकादीनि, गन्धाः कोष्ट(ष्ठ)पुटादयः, अलङ्काराः कटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि पर्यङ्कादीनि, चशब्दादासनादीनि. एतानि वस्त्रादीनि किम् ? अच्छंदा अस्ववशा ये केचन न भुञ्जते नासेवन्ते, न स त्यागीत्युच्यते, न स श्रमण इति. (अत्र सूत्रगतेर्विचित्रत्वाद् बहुवचनेऽप्येकवचननिर्देशः.) ||२.२।। १. अनुस्वारोऽलाक्षणिक इति हारि. ।। २. गिद्दीका = गादी ५.६.८-१० ।। ३. दूरीकृतप्रभावाः ६ टि. ।। ४. चार्यां ५११ ।। ५. कः पुनः सुबन्धुः ? इति, तत्कथानकमुच्यते, [अन्यत्र द्रष्टव्यम् ।।