________________
(II द्वितीयं अध्ययनं श्रामण्यपूर्वकम् ।।)
कहं नु कुज्जा सामण्णं, जो कामे न निवारए । पए पए विसीयंतो, संकप्पस्स वसं गओ ||२.१।।
(ति.) अस्यायमभिसम्बन्धः, अनन्तराध्ययने धर्मः प्रशंसितः । स च श्रामण्ये सति स्यात्, अतः श्रामण्यमिह वाच्यमित्याह – कथं नु कर्यात् श्रामण्यम् । यः कामान्-शब्दादिविषयान् । न निवारयति-न निषेधयति । संकल्पस्य-अप्रशस्तविषयाध्यवसायस्य । वशं गतः, पदे पदे-एकैकस्मिन्नपि शब्दादिविषये स्वस्वेन्द्रियविषयमागच्छति सति । विषीदन्-श्रामण्ये श्लथीभवन् । नुः क्षेपे, 'कुश्रामण्यकृत् भवतीत्यर्थः ।। क्षान्त ! न शक्नोमीत्यादिवाक् क्षुल्लकवत्। एवं पदे पदे सीदन् साधुर्यथोक्त क्षुल्लकवत् चारित्रे श्लथीभवन् सङ्कल्पस्य दुष्टविषयाध्ययवसायस्य वशं गच्छति,तस्मात् कामाः साधुना निवारणीयाः ।।२.१।।
(स.) प्रथमाध्ययने धर्मप्रशंसा उक्ता, सा चेहैव जिनशासने. इह तु अध्ययने जिनशासनेऽङ्गीकृते सति मा भून्नवदीक्षितस्य संयमेऽधृतिरतो धृतिमता भाव्यमित्येतदुच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनं व्याख्यायते-कहमिति-कथं केन प्रकारेण, 'नु' इति क्षेपे, यथा कथं नु स राजा यो न रक्षति प्रजां, कथं नु स वैयाकरणो योऽपशब्दं प्रयुङ्क्ते, तथा कथं नु कुर्यात् श्रामण्यं श्रमणभावं, यः कामान् न निवारयति? कारणमाह-श्रामण्यस्याऽकरणे पदे पदे स्थाने स्थाने विषीदन् विषादं प्राप्नुवन् संकल्पस्य वशं गतः, ||२.१।।
(सु.) व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्विकाख्यमारभ्यते, अस्यैवमभिसम्बन्धः इहानन्तराध्ययने धर्मप्रशंसोक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता
१. पश्चादध्ययने ६ टि. ।। २. चारित्रे ६ टि. ||३. चारित्रे शिथीलीभवन् ०भवेत् ६.।। ४. कुत्सितचारित्रकृत् ६ टि. ५. अन्यत्र द्रष्टव्यो ।।