________________
प्रथमम् अध्ययनम्
कुलादिष्वप्रतिबद्धा भवन्ति भ्रमन्ति वा । नानापिण्डरताः- नानागृहेभ्योऽल्पाल्पपिण्डग्रहणे रताः । नानाप्रकारा वा संसृष्टाऽसंसृष्टाद्यभिग्रहविशेषात् पिण्डास्तेषु रताः । दान्ताःदमितेन्द्रियाः, न तु लोल्यादेकस्मिन्नेव गृहे संपूर्णग्राहिणः । तेन एवंविधाचारेण साधव उच्यन्ते । इति-समाप्तौ ब्रवीमि । तीर्थकृद्गणधरोपदेशेन न तु स्वमत्या । अत्र श्लोकचतुष्के ऽपि मधुकरदृष्टान्तस्य भङ्ग्यन्तरेणोक्तत्वान्न पौनरुक्त्यामाशङ्कनीयम् ।। तिलकाचार्यवृत्तौ संपूर्णं प्रथमं द्रुमपुष्पिकाध्ययनं
(स.) अथ येन प्रकारेण साधवस्तथा चाह--महुगारेति यतश्चैवमतस्ते मधुकरसमाः भ्रमरतुल्याः साधवः, पुनः किंभूताः ? बुद्धा ज्ञाततत्त्वाः, एवंभूता ये भवन्ति भ्रमन्ति वा, पुनः किम्भूताः ? अनिश्रिताः, कुलादिष्वप्रतिबद्धाः पुनः किम्भूताः ? नानापिण्डरताः, नाना नानाप्रकाराऽभिग्रहविशेषात् प्रतिग्रहमल्पाल्पग्रहणाच्च पिण्ड आहारादिरन्तप्रान्तादिर्वा, तस्मिन्नानापिण्डे रता उद्वेगं विना स्थिताः पुनः किम्भूताः ? दान्ता इन्द्रिय-नोइन्द्रियदमनेन, उपलक्षणत्वादीर्यादिसमिताश्च ततश्चायमर्थः यथा भ्रमरोपमया एषणासमितौ यतन्ते तथेर्यादिष्वपि त्रसस्थावरभूतहितं यतन्ते, तेन साधवः परमार्थतः साधव इत्युच्यन्ते इतिशब्दः समाप्तौ ब्रवीम्यहं परं न स्वबुद्ध्या, किन्तु तीर्थकरगणधराणामुपदेशेन ।।५।।
"
1
इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां द्रुमपुष्पिकाख्यं प्रथममध्ययनं समाप्तम् -
(सु.) यतश्चैवमतो - 'मधुकरसमा' इति मधुकरसमा - भ्रमरतुल्याः, बुध्यन्ते स्म 'बुद्धा'–अवगततत्त्वाः, एवंभूता 'ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, 'नानापिण्डरता' नाना- अनेकप्रकाराभिग्रहविशेषात् प्रतिगृहमल्पाल्पग्रहणाच्च पिण्डः-आहारादिपिण्डः, नाना चासौ पिण्डश्च अन्तप्रान्तादिर्वा, तस्मिन् रताःअनुद्वेगवन्तः, ‘दान्ता' इन्द्रियदमेन, दान्ता इति पदेऽसौ वाक्यशेषो द्रष्टव्यः, ईर्यादि - मिताश्च, ततश्चार्थोऽयं यथा भ्रमरोपमया एषणासमितौ यतन्ते, तथा ईर्यादिष्वपि त्रसस्थावरभूतहितं यतन्ते, साद्भाविकं पारमार्थिकं, ते च साधव इति, पाठान्तरं वा, 'तेनोच्यन्ते साधव' इति येन कारणेन मधुकरसमाना उक्तन्यायेन भ्रमरतुल्याः ||५|| इतिः परिसमाप्तौ, ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ।। ।। सुमतिसाधुसूरिवृत्तौ द्रुमपुष्पिकाध्ययनं समाप्तम् ।।
१. इन्द्रियाणि च नोइन्द्रियं चेति विग्रहः ।