________________
दशवैकालिकं-टीकात्रिकयुतम् दानभक्तैषणासु रताः दानग्रहणाद् दत्तं गृह्णन्ति, नादत्तं भक्तग्रहणात् तदपि प्रासुकं, नाधाकर्मादि, एषणाग्रहणेन गवेषणादित्रय परिग्रहः, तेषु स्थानेषु रताः आसक्ताः इति ।।३।।
वयं च वितिं लब्भामो, न य कोइ उवहम्मई । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ||१.४।। :
(ति.) एवं तर्हि कथं यूयं वर्तिष्यथेति, केनाप्युक्ते, साधवो ब्रुवते-वयं च वृत्तिं लप्स्यामहे न कोऽपि-प्राणी पृथ्वीकायादिरूपहनिष्यते । यतो यथा कृतेषु-स्वार्थप्रगुणितेषु आहारेषु विषये साधवो ग्रहणबुध्या 'रीयन्ते-विचरन्ति । यथा भ्रमराः स्वयं सिद्धेषु पुष्पेषु रसार्थं व्रजन्ति । न पुनर्धमरार्थं वृक्षाः पुष्यन्ति । तथा च
वासइ न तणस्य कए, न तणं वड्डइ कए मयकुलाणं । न य रुक्खा न च साहा, फुल्लंति कए महुअराणं ।।१।। [ ]
मेघः तृणस्य कृते न वर्षति, तृणं मृगकुलानां कृते न वर्धते, न च वृक्षाः न च शाखाः भ्रमराणां कृते पुष्पन्ति ।।४।।
(स.) अत्र को प्याह ननु साधवो दानभक्तषणे रता इत्युक्तं, यतश्चैवं तत एव लोको भक्त्याकृष्टचित्तस्तेभ्यः साधुभ्य आधाकर्मादि ददाति, तस्य ग्रहणे जीवानां हिंसा स्यात् आहारस्याग्रहणे तु स्ववृत्तेरलाभेन स्वदेहधारणं न स्यात्. अत्रोच्यते-वयमिति वयं च वृत्तिं लप्स्यामः प्राप्स्यामस्तथा यथा न कोऽप्युपहन्यते, तथा यथाकृतेषु गृहस्थैरात्मार्थं निष्पादितेष्वाहारादिषु साधवो रीयन्ते गच्छन्ति पुष्पेषु यथा भ्रमराः ||४|| ___ कश्चिदाह-'दाणभत्तेसणे रया' इत्युक्तं, यत एव चैवमत एव लोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, तस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे च स्ववृत्त्यलाभ इति, अत्रोच्यते-'वयं च वित्ति'मिति वयं च वृत्तिं 'लप्स्यामः'-प्राप्स्यामस्तथा यथा न कश्चिदुपहन्यते, तथाहि-एते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिवर्तितेषु आहारादिषु 'रीयंते' गच्छन्ति-वर्तन्ते इति, 'पुष्पेषु भ्रमरा यथा' इति ।।४।।
महुका(गा)रसमा बुद्धा, जे भमंति अणिस्सिया । नाणा पिंडरया दंता, तेण वुच्चंति साहुणो ||१.५।। त्ति बेमि
(ति.) तथा महुकार त्ति-आर्षत्वादाऽऽकारः, मधुकरसमाः । यथा मधुकरा: अनिश्रिता:-आरामादिष्वप्रतिबद्धाः । तथा बुद्धा:-ज्ञाततत्त्वाः साधवोऽनिश्रिताः१.०रूपो ५.६.८-११ ।। २. ततो ६.८-१० ।। ३. री गतौ ३ टि. ।। ४. यथा ६.९ ।। ५. लप्स्यामह इति वक्तव्येपीदं मूलस्थं पदमिति मन्तव्यम् ।