________________
प्रथमम् अध्ययनम्
किं ? -आपिबति, कं ?, रसं मकरन्दमिति 'न च' नैव पुष्पं 'क्लामयति' पीडयति, 'स च' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति ।।२।।
एमे समणामुत्ता, जे लोए संति साहुणो । विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ।।१.३।।
(ति.) तथा एवं पूर्वोपवर्णितसाधुवत् । एते श्रमणाः- तपोधनाः । मुक्ताःबाह्येन वसत्युपकरणादिना आभ्यन्तरेण च क्रोधादिना परिग्रहेण रहिताः । ये लोके - मनुष्यलोकरूपे साधवः सन्ति । दानभक्तैषणे रताः । 'दात्र्या दानायानीतस्य 'भक्तस्य एषणे-शुद्धत्वान्वेषैणे रताः । विहङ्गमा इव-भ्रमरा इव पुष्पेषु । अत्र निषेधो व्यङ्ग्यः । न पुनर्लौल्यादाधाकर्मादिदुष्टेषु विशिष्टेष्वपि मोदकादिषु । भ्रमरा अपि पुष्पेष्वेव रताः, न तूत्कृष्टफलादिषु ||३||
(स) अयं दृष्टान्त उक्तः, दान्तिकमाह - एवमनेन प्रकारेण एते श्रमणास्तपस्विनः ते च न तापसादयः, अत आह-कीदृशाः श्रमणाः ? - मुक्ताः बाह्यपरिग्रहेण आभ्यन्तरपरिग्रहेण च, मुक्ताः, तत्र बाह्यपरिग्रहो धनधान्यादिरूपो नवविधः, आभ्यन्तरपरिग्रहश्च
"मिच्छत्तं वेअतिगं हासाइयं छक्कगं च नायव्वं । कोहाईण चउक्कं चउदस अब्मिंतरा गंठी १."
इत्यादिरूपस्ताभ्यां रहितः, एते के ? - ये श्रमणा लोकेऽर्धतृतीयद्वीपसमुद्रपरिमाणे सन्ति विद्यन्ते पुनः कीदृशाः श्रमणाः ? - साधवो ज्ञानादिसाधकाः, पुनः कीदृशाः ? विहङ्गमा इव भ्रमरा इव पुष्पेषु दानभक्तैषणे रताः, दानग्रहणाद् गृहस्थैर्दत्तं गृह्णन्ति परं नादत्तं, भक्तग्रहणात् तदपि दत्तं प्रासुकं गृह्णन्ति, न आधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, एषु त्रिषु स्थानेषु रताः सक्ताः (३. (१.३)
(सु.) 'एमेए' इत्यादि, 'एवं' अनेनैव प्रकारेण एते ये परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः तपस्यन्तीत्यर्थः, ते च तापसादयो भवंत्यत आह- 'मुक्ताः' - सबाह्याभ्यत्तरेण ग्रन्थेन ये लोके अर्धतृतीयद्वीपसमुद्रपरिमाणे सन्ति विद्यन्ते, साध सावधः किं साधयन्ति? - ज्ञानादीति - इति गम्यते, विहंगमा इव भ्रमरा इव पुष्पेषु
१. स्त्रिया [इति ज्ञेयम्] ६ टि. ।। २. अन्नस्य ६ टि. ।। ३. विचारणे