________________
दशवैकालिकं-टीकात्रिकयुतम् ___बाह्याभ्यन्तररूपं द्वादशधा. अथ धर्मकरणे माहात्म्यमाह-देवा अपि, अपिः संभावने, तं धर्मकारकं जीवं नमस्यन्ति, मनुष्यास्तु सुतरां, तं कं ? यस्य धर्मे धर्मकरणे सदा मनोन्तःकरणम् इति प्रथमगाथार्थः ।।१।। (सु.) ए नमः || जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् ।
विमलस्त्रासविरहितस्त्रिलोकचिंतामणिर्वीरः ।।१।। इहार्थतस्त(तोऽर्ह)त्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसातिकटुकदुःखसन्तानविनाशहेतोः दशवैकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते, तत्र प्रस्तुतार्थप्रतिपादनार्थमेव धर्मस्य नमस्कारद्वारेणाशेषविघ्नविनायकोपशांतये भगवान् शय्यंभवाचार्यो भावमंगलमाह-'धम्मो मंगल'मित्यादि, मङ्ग्यते हितमनेनेति 'मङ्गलं', 'उत्कृष्टं' प्रधानं, न हिंसा अहिंसाप्राणातिपातविरतिरित्यर्थः, दुर्गतिप्रसृतान् जीवान् धारयतीति धर्मः, स मङ्गलं, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति 'तपः' अनशनादि, 'देवाऽऽवि तं नमसंति'ति (देवा अपि तं नमस्यन्ति) यस्य किं ? - धर्मे 'सदा' सर्वकालं 'मनः' अन्तःकरणमिति ।।१।।
जहा दुम्मस्स पुप्फेसु, भमरो आवियइ रसं | ण य पुर्फ किलामेइ, सो ह पीणेइ अप्पयं ।।१.२।।
(ति.) अथैवंविधधर्मविधायिनां साधूनां प्रथमं श्लोकचतुष्टयेन माधुकरी वृत्तिमाहयथा द्रुमस्य पुष्पेषु भ्रमरो रसम्-मकरन्दमापिबति । आ-मर्यादया । न च-नैव । पुष्पं क्लमयति-ग्लानिं नयति । आत्मानं च प्रीणयति इत्यक्षरार्थः । अत्र 'चोपमेयं व्यङ्ग्य । भ्रमरवत् साधुः | पुष्पाणि गृहस्थगृहाणि । रस आहारलेशः, तं गृह्णाति, न तं गृहस्थं पीडयति । आत्मानं च तर्पयति ।।१.२।।
(स.) अथ यतीनामाहारग्रहणे विधिमाह-जहेति-यथा येन प्रकारेण द्रुमस्य वृक्षस्य पुष्पेषु भ्रमरो रसं मकरन्दमापिबति, परं न च नैव पुष्पं क्लामयति पीडयति स च भ्रमर आत्मानं प्रीणयति रसेनात्मानं सन्तोषयति, ।।१.२।।
(सु.) 'जहा दुमस्से ति 'यथा'-येन प्रकारेण द्रुमस्य पुष्पेषु भ्रमर:-चतुरिन्द्रियः, १. प्रसिद्धः पाठस्तु सो य’ अस्ति वृत्तिकृझिरन्यैश्च विवृत्तस्तथैव स च' इति. २. चायमर्थो व्यङ्ग्यः ५-१० । ज्ञेयं २ टि., व्यङ्ग्य = प्रकटनीयः ६ टि. ।।