________________
प्रथमं अध्ययनम् द्रुमपुष्पिका
धम्मो मंगलमुक्कटुं, अहिंसा संजमो तवो । देवा वि तं नमसंति, जस्स धम्मे सया मणो ||१.१।। (ति.) धर्मो 'मङ्गलमुत्कृष्टमित्यनेन मङ्गलमुक्तं । अहिंसा संयमस्तपः । अहिंसा-प्राणिदया । संयमः-भवभ्रमणहेतुषु विषयेषु प्रवर्तमानानामिन्द्रियाणां संयमनं, 'उपरमणं वालनं । तपः-अनशनादि द्वादशभेदम् इत्यनेनांशेनाभिधेयमभिदधे । अस्मिन्नहिंसादेरेव व्याख्येयत्वात् । देवा अपि तं नमस्यन्ति, यस्य धर्मे सदा मनः । इत्युत्तरार्धेन प्रयोजनं फलभूर्तमुद्भावितम् । इह चैतत्सांदृष्टिकं फलं, आयति फलं तु निःश्रेयसमेव, सर्वेषामपि धर्मशास्त्राणां निःश्रेयसफलत्वात् । सम्बन्धश्चाऽनुक्तोऽपि वाच्य-वाचकरूपः प्रतीत एव । 'घटशब्दाद् वाचकान्मृन्मयं वर्तुलाकारं जलाधारं वाच्यं । गोशब्दात् खुर-ककुद-विषाणादिमन्तं पदार्थमबलाबालगोपालादयोऽप्यवबुध्यन्त एव ।।१।। (स.) स्तम्भनाधीशमानम्य गणिः समयसुन्दरः ।।
___ दशवैकालिके सूत्रे शब्दार्थं लिखति स्फुटम् ।।१।। धर्म इति-धर्मो दुर्गतिप्रपतज्जन्तुधारणालक्षणः, उत्कृष्टं प्रधानं मङ्गलं वर्तते, को धर्म इत्याह-अहिंसा, न हिंसा अहिंसा जीवदया प्राणातिपात-विरतिरित्यर्थः, पुनः संयमः पञ्चाश्रवविरमणं, पञ्चेन्द्रियनिग्रहः चतुःकषायजयः, दण्डत्रयविरतिश्चेति सप्तदशभेदः, इत्येवंरूपः, पुनस्तपः
"अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होई ।।१।। पायच्छित्तं विणंओ वेआवच्चं तहेव सज्झाओ ।
झाणं उस्सग्गो वि य अभिंतरिओ तवो होई ।।२।।" इति १. प्रधानम् ६ टि., ।। २. निवर्त्तनम् ६ टि. ।। ३. मूलकारणं कथितम् ६ टि, ०धेयम् ५-१० ।। ४. जन्मदिनादपि श्रीवज्रस्वामिन इव ३ टि. ।। ६. कथितम् ६ टि. ।। ७. तत्कालिकं २.६ टि. ।। ८. विख्यात एव ६ टि. ।। ९. घटशब्दकथनात् वर्तुलाकारं स्वयमेव ज्ञातव्यम् ८ टि. || १०. गोशब्दकहणै सति खुरककुदगलोलटके ८ टि., वाचकात् ६ टि. ।। ११.०प्येवं ६.८ ।।